________________
संस्कृतनिबन्धशतकम्
अस्थूलमनण्वह्रस्वमदीर्घम्-अरसमगन्धम्-अस्मिन्नु खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च ।-बृहदारण्यक० ३-८-८।।
तस्य ब्रह्मणः सत्तयैव वाक्चक्षुर्मन आदिकं स्वकर्म कतु प्रभवन्ति । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।
(केन १-५) जीवनेऽस्मिन् यदि ब्रह्मज्ञानं न स्यात् तहि जीवनं निष्फलमेव । तत्त्वज्ञानेन ब्रह्मदर्शनेन च जीवो मुक्तिं लभते
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥
(केन २-५ ) कठोपनिषदि ब्रह्मप्राप्तः साध साधनं वर्ण्यते । रूपकम् आश्रित्याभिधीयते यत्-शरीरेऽस्मिन् आत्मा रथी, शरीरं रथः, बुद्धिः सारथिः, मनः प्रग्रहः, इन्द्रियाणि हयाः, संयमेनेन्द्रियाश्वान् वशे कृत्वा रथिनम् आत्मानं प्रेक्षेत
आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयान्याहुविषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ कठ० १-३-३-४ ब्रह्मणोऽनिर्वचनीयत्वम् आश्रित्यैव उपनिषत्सु नेति नेति प्रोच्यते । ब्रह्मसाक्षात्कार एवं उपनिषदां चरमं लक्ष्यम् । ब्रह्मसाक्षात्कारेणैव सर्वपापनिरोधो मोक्षावाप्तिश्च
तमेव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय । श्वेताश्व० ३-८ ___ उपनिषत्सु वेदाभिमतः त्रैतवादोऽपि प्रस्तूयते । तत्रैक ईश्वरः अभोक्ता साक्षिरूपश्च, द्वितीयो जीवः कर्मफलभोक्ता, तृतीया प्रकृतिश्च अचेतना । दृष्टान्तरूपेण प्रकृतिः वृक्षः, जोवेश्वरौ च तत्रस्थौ पक्षिणौ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वादद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ श्वेता० ४-६
वेदान्तप्रतिपादितस्य 'तत्त्वमसि' इति महावाक्यस्य मूलं छान्दोग्योपनिषदि प्राप्यते
तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो। छान्दोग्य० ६-६-१२-३
भगवद्गीतायां मुख्यतः प्रतिपादितस्य निष्कामकर्मयोगस्य मूलम् ईशोपनिषदि प्राप्यते
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ ईश० २ विश्वबन्धुत्वस्योपदेश ईशोपनिषदि उपलभ्यते