________________
उपनिषदां महत्त्वम्
एता हि दुःखाधिव्याधि-विशीर्ण-जगद्-दुःखनिवृत्त्यै, पापविमुक्तये, आनन्दावाप्तये, निर्वाणप्राप्तये च राजमार्गं प्रदर्शयन्ति । जराधिव्याधि-पोडितो मानवः स्वाभीष्ट-लक्ष्य-प्राप्तये उपनिषदामेव शरणं कामयते । अतएव उपनिषदां देशे विदेशे च शतमुखं स्तुतिः संश्रूयते ।
उपनिषत्सु अध्यात्मम् - उपनिषदो हि अध्यात्मविद्यायाः स्रोतः स्वरूपः । एतदुद्भूता नानानिर्झरिण्यो नानाशास्त्र - धर्मशास्त्र - आचारशास्त्र नीतिशास्त्रादि रूपेण सकलमपि भुवनं भागीरथीप्रवाह इव पावयन्ति । अध्यात्मप्रधानायां प्रस्थानत्रय्याम् उपनिषदो मूर्धन्यभूताः । प्रस्थानत्रय्याम् अन्यद् द्वयं ग्रन्थरत्नं गीता ब्रह्मसूत्रं चेति परिगण्यते । वस्तुतो गीता ब्रह्मसूत्रं चेति द्वयमपि उपनिषदाश्रयमेव । एवं प्रस्थानत्रय्याम् उपनिषद एव परमप्रमाणत्वेन संग्राह्याः ।
१३
मुण्डकोपनिषदि वेदादीनां गणना अपराविद्यायां वर्तते, उपनिषदां पराविद्यायाम् । अपरा विद्या लौकिकविषयप्रधाना, परा च ब्रह्मज्ञानप्रधाना । अतएवोच्यते
तत्रापरा ऋग्वेदो यजुर्वेदः, अथ परा यया तदक्षरमधिगम्यते । ( मुण्डक० १-१-५ ) उपनिषदां महत्त्वमवधार्यैव १७ तम शताब्द्यां दाराशिकोहो नाम राजकुमारः ५० उपनिषदां पारसीकभाषायाम् अनुवादं विदधे । तन्मूलकमेव आंके त्वेल दूपेरांनामक फ्रेंच विदुषा विहितं लेटिन भाषानुवादम् आधीत्य शर्म॑ण्यदेशीयो विद्वान् प्रसिद्धदार्शनिकः शोपेनहावर उपनिषदां गुणानुवादं कुर्वन्नाह - एता उपनिषदो मम जीवनस्य शान्तिसाधिकाः, मरणान्तरं चापि शान्तिसाधिका भविष्यन्ति ।
It has been the solace of my life and will be the solace of my death,
उपनिषदां विषयाः - उपनिषदस्तु भारतीय तत्त्वज्ञानां सात्त्विकचिन्तनस्य प्रायशः सकलोऽपि संग्रहः समुपस्थाप्यते । उपनिषत्सु मुख्यत्वेन वर्णिता विषयाः समासतः सन्तिः — किं ब्रह्म, क ईश्वरः, जीवात्मनः किं स्वरूपम्, जीवात्मनः किं लक्ष्यम्, जीवो ब्रह्मणो भिन्नोऽभिन्नो वा, कथं च भिन्नत्वम् अभिन्नत्वं वा, सृष्टेः मूलरूपं किम्, कथं जगतः प्रादुर्भावः, कथं जगतः प्रलयः, अध्यात्मज्ञानस्य आवश्यकता, अध्यात्मेन किं साध्यते, अध्यात्मेन च कथं मोक्षावाप्तिः, कानि च मोक्षस्य साधनानि, निवृत्तिमार्गस्य कावश्यकता, ज्ञानमार्गेण किं साध्यते, ब्रह्मसाक्षात्कारस्य के लाभाः, इत्यादयः ।
उपनिषदां महत्त्वबोधकाः केचन विषया अत्र समासत उपस्थाप्यन्ते । विनश्वरे जगति एकं सत् अविनश्वरं च वस्तु ब्रह्मैव, तदेव जीवनेऽन्वेषितव्यम् ।