SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ४. उपनिषदां महत्त्वम् ( सर्वोपनिषदो गावः ) उपनिषद् - शब्दार्थ:- - उप-नि-उपसर्गपूर्वकात् विसरण - गत्यवसादनार्थकात् षद् (सद् ) धातोः क्विपि उपनिषत्-शब्दो निष्पद्यते । उप-समीपे नि-निश्चयेन, सद्-स्थानम् इति, तत्त्वज्ञानार्थं गुरोः समीपे सविनयं स्थितिः उपनिषद् इत्युच्यते । तत्त्वज्ञान प्रतिपादनाद् एतद्विषयका ग्रन्था अपि उपनिषद इत्युच्यन्ते । उपनिषद्-शब्दार्थो ब्रह्मविद्येत्यपि गृह्यते । सद्धातो: अर्थत्रयम् आश्रित्य उपनिषच्छब्दार्थो निरूप्यते यद् या संसारबीजभूताम् अविद्यां नाशयति, यया ब्रह्मप्राप्तिः ब्रह्मज्ञानं वा भवति, यया च मानव-दुःखावसादो भवति सा उपनिषदिति । अतएव श्रीशंकराचार्यः अविद्यानाशनं दुःखनिरोधं ब्रह्मप्राप्तिं च, इत्यर्थत्रयम् आश्रित्य उपनिषद्शब्दं ब्रह्मविद्याद्योतकत्वेन स्वीकरोति । गौण्या वृत्त्या च ब्रह्मविद्याप्रतिपादका ग्रन्था अपि उपनिष च्छब्दवाच्याः । उपनिषदां संख्या - यद्यपि उपनिषदां संख्या शतद्वयपर्यन्तं मन्यते, तथापि तत्र एकादशोपनिषद एव मुख्यत्वेन मन्यन्ते । तद्यथा — ईश - केन - कठप्रश्न- मुण्डक-माण्डूक्य-तैत्तिरीय - ऐतरेय - छान्दोग्य - बृहदारण्यक - श्वेताश्वतराः । श्रीशंकराचार्योऽपि एतासामेव भाष्यमकरोत् । प्रत्येका उपनिषत् केनापि वेदेन संबद्धा वर्तते । विषयानुसारम् १०८ उपनिषदां षट्सु भागेषु विभाजनं क्रियते । ( वेदान्तविषयसंबद्धाः-२४, ( २ ) योगसिद्धान्तसंबद्धा: - २०, (३) सांख्यसिद्धान्तसंबद्धा: - १७, ( ४ ) वैष्णवसिद्धान्तसंबद्धा: - १४, ( ५ ) शैवसिद्धान्तसंबद्धा:१५, ( ६ ) शाक्तसिद्धान्तसंबद्धाः - १८ । उपनिषदां महत्त्वम् — उपनिषदां महत्त्वं न केवलं भारतीयैः, अपितु पाश्चात्त्यैरपि मनीषिभिर्निविवादम् उररीक्रियते । उपनिषदो हि भवाब्धिसंतारिकाः, आधि-व्याधि-संतप्त मानस-संतपिकाः, मायामोह - निबद्ध-जीवाधिविनाशन-हेतवः, तात्त्विक ज्ञान - प्रभा-संतानेन मानवान्तःकरण- प्रदीपिकाः, सुखशान्तिसाधिकाः, अभ्युदय - निःश्रेयसावाप्तिहेतवश्च सन्ति । अध्यात्ममीमांसाया देदीप्यमान रत्नभूता इमाः । सर्वेष्वपि भारतीयेषु दर्शनेषु आसां प्रभावः स्फुटमवलोक्यते । सर्वैरपि मनीषिभिः, धर्मप्रवर्तकैः, तत्त्वज्ञः, आचारशिक्षकैः, धर्मशास्त्रकारैश्च उपनिषदां महत्त्वं स्वीयदृष्ट्या स्वोक्रियते । भारत सर्वस्वभूता इमा उपनिषदो न केवलं स्वप्रभया भारतमेव विद्योतयन्ति, अपितु सकलमपि भुवनं तरणिवदाभया भासयन्ति । भारतीय संस्कृतौ अध्यात्मतत्त्वस्य समन्वयस्य श्रेयः उपनिषदामेव ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy