________________
मुखं व्याकरणं स्मृतम्
११
ब्रह्मावाप्तिसाधनं च वर्तते । अतएव ऋग्वेदे वर्ण्यते यद् यो वाक्तत्त्वं सर्वथा पश्यति, वाक्तत्त्वमपि तस्मै स्वीयं रूपं प्रकटयति
उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्त्रे जायेव पत्य उशती सुवासाः ॥
( ऋग्० १०-७१-४ ) अतएव भगवता भर्तृहरिणा शब्दसंस्कारः शब्दब्रह्मप्राप्तिसाधनत्वेन निरूप्यते
तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य
प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ॥ ( वाक्य० १-१३३ ) वाक्यपदीये शब्द तत्त्वस्य महत्त्वं प्रतिपादयता तेनोच्यते यत् शब्द एव विश्वस्यास्य निबन्धनं संयोजकश्चास्ति । शब्द एव नेत्ररूपः सन् जगदिदं द्योतयति
च
शब्देष्वेवाश्रिता शक्तिविश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभांत्माऽयं भेदरूपः प्रतीयते ॥ ( वाक्य ० १ - ११९ ) शब्दस्य ज्ञानाश्रयत्वेन शब्दज्ञानयोः परस्परान्वयित्वं निर्णीयते । उक्त
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते । ( वाक्य ० १ - १२४) व्याकरणस्य परमवैदुष्याधायकत्वम् -- न केवलं तत्त्वज्ञैरेव व्याकरणं प्रशस्यते, अपि तु विविधशास्त्रपारदृश्वभिर्विद्वत्तल्लजैरपि इदम् अभिनन्द्यते । काव्यशास्त्रतत्त्वज्ञमूर्धन्यः काव्यप्रकाशकारो मम्मटो वैयाकरणानां तत्त्वज्ञतां प्रतिपादयन् अभिधत्ते
बुधैर्वैयाकरणैः प्रधानभूतस्फोट - व्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्व नरिति व्यवहारः कृतः । ( काव्यप्रकाश, उच्छ्वास १ ) वैयाकरणैः शब्दब्रह्मरूप-व्यङ्ग्य-स्फोट- व्यञ्जकस्य ध्वनिरिति नाम व्यवह्रियते । ध्वनिरेव काव्यज्ञानां सर्वस्वम् । अतएव आनन्दवर्धनाचार्यादिभिः ध्वनिकाव्यस्योत्कृष्टत्वं समर्थ्यते प्रतिपाद्यते च । विविधा दार्शनिकाः, भाषाशास्त्रज्ञाः, अन्ये च सूरयो व्याकरणशास्त्रस्य महत्त्वम् उद्घोषयन्ति तज्ज्ञानं चानिवार्यत्वेन प्रतिपादयन्ति । अत एतद् वचनं न विप्रतिपत्तिलेशमप्यावहति यद् –
अवैयाकरणस्त्वन्ध एव ।
,