________________
१० ।
संस्कृतनिबन्धशतकम् समग्रस्यापि ज्ञानस्य शब्दविवेचनमूलत्वात् तत्साधनत्वाच्च व्याकरणस्य मुख्यत्वं निर्विवादम्-'अवैयाकरणस्त्वन्ध एव' इति वचनमपि न संशयलेशम् आवहति । व्याकरणमन्तरेण शब्दतत्त्वज्ञानाभावेन मानवस्यान्धत्वम् आपद्यते । अतो व्याकरणस्य सर्वशास्त्रेषु मुख्यत्वं ज्ञायते ।
व्याकरणस्यानिवार्यत्वम्-स्वर-वर्णोच्चारणज्ञानमन्तरेण शब्दस्य अर्थबोधनस्थाने अनर्थबोधकत्वं स्यात् । वेदेषु विशेषतः स्वरज्ञानस्य शुद्धप्रयोगस्य च नितरां महत्त्वं प्रतिपाद्यते । स्वरस्य अन्यथा उच्चारणेन 'इन्द्रशत्रुर्वर्धस्व' इति वृत्रासुरविजयाथं पठितोऽपि मन्त्रः तत्पुरुषेऽन्तोदात्ते प्रयोक्तव्ये इन्द्रः शत्रुः नाशयिता अस्य, इति बहुव्रीहौ आधुदात्ते प्रयुक्ते इन्द्र एव वृत्रस्य संहर्ता समभवत् । एवम् इन्द्रविजयस्य स्थाने वृत्रवध एव संवृत्तः । अशुद्धोच्चारणस्य असाधुशब्दप्रयोगस्य च एष एव दुःखदो दुष्परिणामो जायते । उक्तं च
मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥
(महा० १) एतेन साधुशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानम् अनिवार्यम् ।
व्याकरणशास्त्रस्य विशालत्वम्-पुरा व्याकरणस्य तादृशं महत्त्वम् आसीद् यद् व्याकरणम् अष्टप्रभेदं प्रथितम् आसीत् । तद्यथा
ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम् ।
त्वाष्ट्रमापिशलं चेति पाणिनीयमथाष्टमम् ॥ (हैम-बृहद्वृत्त्यवचूर्णि)
पाणिनि-पूर्ववर्तिनां ८५ · वैयाकरणानाम् उल्लेखः प्राप्यते । पाणिनिना स्वीये व्याकरणे गार्य-शाकटायन-स्फोटायनादीनां दशाचार्याणाम् उल्लेखो विहितः। पाणिनि-परवर्तिषु वैयाकरणेषु कात्यायन-पतञ्जलि-वामन-भर्तृहरिकैयट-भट्रोजिदीक्षित-नागेश-वरदराजादीनां वैयाकरणानां व्याकरणविषये विशिष्टं योगदानं वर्तते ।
___ व्याकरणस्य परमपावनत्वम्-'यन्मनसा ध्यायति तद् वाचा वदति, यद् वाचा वदति तत् कर्मणा करोति, यत् कर्मणा करोति तदभिसंपद्यते' इति सिद्धान्तमाश्रित्य मानवजीवनशुद्धयर्थं भावशुद्धिः शब्दशद्धिश्च नितराम् आवश्यकी । शब्दशुद्धिश्च व्याकरणेनैव संभाव्यते । अतएव व्याकरणस्य परमपावनत्वम् अङ्गीक्रियते । एतद्-भावात्मकमेवैतद् उच्यते
तेषां हि सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहः।
व्याकरणं न केवलं भावशुद्धिसाधनमेव, अपि तु शब्दब्रह्मशोधकं शब्द१. विवरणार्थं द्रष्टव्यम्-लेखककृतं संस्कृत-व्याकरणम्, भूमिका, पृष्ठ १४-४४ ।