SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ मुखं व्याकरणं स्मृतम् इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ ( काव्यादर्श १-३४) शुद्धशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानस्यानिवार्यता सर्वैरेव संस्तूयते । अतः साधूच्यते यद्यपि बहु नाघीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥ साधुशब्दज्ञानं बिना, वर्णोच्चारणज्ञानमन्तरेण च सकारशकारयोर्भेदो न ज्ञायेत । एवं सति ' सकृद् भुङ्क्ते एकवारं भुङ्क्ते, इत्यर्थकं वाक्यं शकृद् भुङ्क्त' मलं भुङ्क्ते, इत्यर्थकं स्यात् । एवमेव स्वजन: ( स्वकीयो जनः ) श्वजनः ( कुक्कुरवर्गः ) भविष्यति, सकलं ( समग्रम् ) च शकलम् (अर्धांशः) । व्याकरणस्य वेदाङ्गत्वम् - वेदानां साधु ज्ञानार्थं षण्णां वेदाङ्गानां ज्ञानम् अनिवार्यम् । षड् वेदाङ्गानि निर्दिश्यन्ते— शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥ प्रत्येकस्य वेदाङ्गस्योपयोगिताम् आश्रित्य वेदस्य शरीरावयवरूपेण तस्य उच्चावचं महत्त्वं प्रदर्शयता प्रोच्यते छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ( पा० शिक्षा ४१-४२ ) अत्र 'मुखं व्याकरणं स्मृतम्' इति उद्घोषयता शिक्षाकारेण षडङ्गेषु व्याकरणस्य मुख्यत्वं प्रतिपाद्यते । महर्षिणा पतञ्जलिनाऽपि एतदेव व्यादिश्यते'प्रधानं च षडङ्गेषु व्याकरणम्' ( आ० १ ) । व्याकरणस्य मुखत्वं मुख्यत्वं च - व्याकरणं वेदाङ्गेषु मुखत्वेन उररीक्रियते । शब्दाधीनं जगत् शब्दश्च मुखेनोच्चारणीयः, अतः तत्साधनत्वेन व्याकरणमपि शब्दब्रह्मणो मुखरूपम् अस्ति । यथा मुखं सौन्दर्यार्थकं तथैव व्याकरणमपि भाषायाः साधुत्वप्रतिपादनेन सौन्दर्याधायकम्, मुखं भाषण - साधनं तथैव व्याकरणमपि परिष्कृतशब्दप्रयोगसाधनम् । व्याकरणमेव शब्दप्रकाशनेन स्वमनोगतभावाविर्भावकम् अन्तर्निहितविचारप्रसारकं ज्ञानज्योति - श्चास्ति । यथा शरीरावयवेषु मुखस्योत्कृष्टत्वं न केनाप्याक्षिप्यते, तथैव भाषातत्त्वविवेचनेन शब्दज्ञानमूलकत्वेन शब्दशास्त्रावगाहनेन वाक्यतत्त्वविवेचनेन शब्दब्रह्मस्वरूप-प्रकाशनेन व्याकरणस्य शास्त्रेषु सर्वोत्कृष्टत्वं न केनापि व्याक्षेप्तुं पार्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy