SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ३. मुखं व्याकरणं स्मृतम् ( तेषां हि सामर्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः) व्याकरणशब्दार्थ:--व्याक्रियन्ते विविच्यन्ते प्रकृतिप्रत्ययादयो यत्र तद् व्याकरणम्, इति व्युत्पत्तिम् आश्रित्य व्याकरणं शब्दशास्त्रं नाम । व्याकरणे हि प्रकृतिप्रत्ययादीनां सूक्ष्मातिसूक्ष्म विवेचनं प्रस्तूयते । विवेचनमेव व्याकरणस्य मुख्यार्थः । प्रकृतिप्रत्यययोः, ध्वनिस्फोटयोः, शब्दापशब्दयोः, आकृतिद्रव्ययोः, शब्दनित्यतानित्यतयोः, पदवाक्ययोः, पदपदार्थयोः, वाक्यवाक्यार्थयोः विवेचनं विश्लेषणं च व्याकरणस्य प्रयोजकत्वेनास्थीयते । व्याकरणस्य प्रयोजनम्-भगवता पतञ्जलिना व्याकरणस्य पञ्च प्रयोजनानि उपस्थाप्यन्ते । तद्यथा रक्षोहागमलध्वसन्देहाः प्रयोजनम् । ( महाभाष्य, आ० १) वेदानां रक्षार्थम्, ऊहार्थम्, अर्थात् यथास्थानम् उचितशब्दप्रयोगार्थम्, शास्त्राज्ञापालनार्थम्, लघ्वर्थम्, असन्देहाथं च व्याकरणाध्ययनम् अनिवार्यम् । शास्त्राज्ञामनुवदता पतञ्जलिना प्रोच्यते ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च । प्रधानं च षडङ्गेषु व्याकरणम्। (महाभाष्य, आ० १) एवं पतञ्जलिना व्याकरणाध्ययनस्योपयोगित्वं षडङ्गेषु व्याकरणस्य मुख्यत्वं च प्रतिपाद्यते। व्याकरणस्य महत्त्वम्--वर्णोच्चारणज्ञानम् अन्तरेण न वैदुष्यं न च शास्त्रज्ञत्वं प्राप्तुं शक्यते । वर्णोच्चारणज्ञानम्, शब्दापशब्दज्ञानम्, प्रकृति-प्रत्ययज्ञानम्, विविधशब्दनिर्माण प्रक्रियाज्ञानम्, च व्याकरणेनैव अवाप्तुं शक्यते, अतः आबालवृद्धं व्याकरणस्य महत्त्वम् । व्याकरणाद् ऋते शुद्धशब्दज्ञानं परिष्कृतशब्दप्रयोगश्च न संभाव्यते । अतएव एकस्यापि शुद्धस्य शब्दस्य ज्ञानं सुप्रयोगश्च स्वर्गे लोके कामधुक्त्वेन प्रशस्यते पतञ्जलिना . एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति । भगवता भर्तृहरिणा 'साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः' (वाक्यपदीय १-१४३ ) इति निर्दिशता साधुत्वज्ञानार्थं व्याकरणस्यानिवार्यत्वम् उपदिश्यते। __ यजुर्वेदे 'दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः' ( यजु० १९-७७ ) इति मन्त्रेण सत्यासत्य-विवेचनमपि व्याकरणशब्देन समर्थ्यते । काव्यादर्श महाकवेर्दण्डिनः सत्यमिदं वचनं यद् यदि शब्दनामकं ज्योतिर्भुवने न दीप्येत तर्हि जगदिदम् अन्धन्तमः स्यात्
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy