________________
वेदाङ्गानां महत्त्वम् ग्रन्थो निघण्टुरिति कथ्यते । तस्यैव व्याख्यानभूतं निरुक्तमेतत् । यास्को निरुक्ते स्वपूर्ववर्तिनः सप्तदशनिरुक्तकारान् परिगणयति । निरुक्ते काण्डत्रयं नैघण्टुककाण्डं नैगमकाण्डं दैवतकाण्डं चेति । निरुक्तस्य पञ्चविधकार्यत्वम् । उक्तं च
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते-पञ्चविधं निरक्तम् ॥ (५) ज्योतिषम्-शुभं मुहूर्तम् आश्रित्यैव विशिष्टोऽध्वरः प्रावर्ततेति शुभमुहूर्ताकलनाय ज्योतिषस्योदयोऽभूत् । अत्र सूर्यचन्द्रमसोर्ग्रहाणां नक्षत्राणां च गतिनिरीक्ष्यते परीक्ष्यते विविच्यते च । सौरमासश्चान्द्रमासश्चोभयं परिगण्यतेऽत्र । मखमुहर्तनिर्धारणे चान्द्रमासस्य प्राधान्यं लक्ष्यते । विषयेऽस्मिन् आचार्यलगधप्रणीतं वेदाङ्गज्योतिषम् इति ग्रन्थ एव साम्प्रतम् उपलभ्यते । अतीव गूढार्थकोऽयं ग्रन्थः । अद्यावधि न कोऽप्यस्यार्थावधारणे सक्षमः । ज्योतिषस्य महत्त्वं तत्रोच्यतेवेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः। तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद वेदम् ॥ (वेदाङ्गज्योतिषम्)
(६) कल्पः कल्पसूत्रेषु विविधाध्वराणां संस्कारादीनां च वर्णनं प्राप्यते । मन्त्राणां विविधकर्मसु विनियोगश्च तत्र प्रतिपाद्यते । कल्पसूत्राणि चतुर्धा विभज्यन्ते-( क ) श्रौतसूत्रम् , ( ख ) गृह्यसूत्रम् , ( ग ) धर्मसूत्रम् , (घ ) शुल्बसूत्रं च । ( क ) श्रौतसूत्रम्-श्रौतसूत्रेषु श्रुतिप्रतिपादितानां सप्त हविर्यज्ञानां सप्त सोमयज्ञानाम् एवं चतुर्दशयज्ञानां विधिविनियोगादिकं च प्रतिपाद्यते । तत्र प्रमुखाणि श्रौतसूत्राणि सन्ति-आश्वलायनश्रौतसूत्रम् , शांखायनश्रौतसूत्रम्०, बौधायन०, आपस्तम्ब०, मानव०, कात्यायन०, लाट्यायन०, द्राह्यायण०, वैतानश्रौतसूत्रं च । श्रौतसूत्राणीमानि कमप्येकं वेदमाश्रित्य वर्तन्ते । ( ख ) गृह्यसूत्रम्-गृह्यसूत्रेषु षोडशसंस्काराणां पञ्चमहायज्ञानां सप्तपाकयज्ञानाम् अन्येषां च गृह्यकर्मणां सविशेषं वर्णनम् आप्यते । गृह्यसूत्राण्यपि कमप्येकं वेदम् आश्रित्य वर्तन्ते । तत्र प्रमुखाणि सन्ति-आश्वलायनगृह्यसूत्रम्, पारस्कर०, शांखायन०, बौधायन०, आपस्तम्ब०, मानव०, हिरण्यकेशी०, भारद्वाज०, काठक०, लौगाक्षि०, गोभिल०, जैमिनोय०, खदिरगृह्यसूत्रं चेति । (ग) धर्मसूत्रम्-धर्मसूत्रेषु मानवानां कर्तव्यं नीतिधर्मो रीतयः चतुर्वर्णाश्रमाणां कर्तव्यादिकम् अन्यच्च सामाजिकनियमादिकं वर्ण्यते । तत्र प्रमुखा ग्रन्थाः सन्ति–बौधायनधर्मसूत्रम्, आपस्तम्ब०, हिरण्यकेशी०, वसिष्ठ०, मानव०, गौतमधर्मसूत्रं च । (घ ) शुल्वसूत्रम्--शुल्वसूत्रेषु यज्ञवेद्या मानादिकं वेदीनिर्माणविध्यादिकं च वर्ण्यते। तत्र मुख्या ग्रन्थाः सन्ति–बौधायनशुल्वसूत्रम् , आपस्तम्ब०, कात्यायन०, मानवशुल्वसूत्रं च ।