________________
संस्कृतनिबन्धशतकम् (२) व्याकरणम्-व्याकरणे प्रकृति-प्रत्ययस्य विचारः, उदात्तादिस्वरविचारः, उदात्तादिस्वरसंचारनियमाः, सन्धिनियमाः, शब्दरूप-धातुरूपादि निर्माणनियमाः, प्रकृतेः प्रत्यस्य च स्वरूपावधारणं तदर्थनिर्धारणं चेति विविधा विषया विविच्यन्ते । वेदेषु प्रकृति-प्रत्यय-विचारस्य स्वरस्य च महन्महत्त्वमिति तत्र व्याकरणमेव साहाय्यम् अनुतिष्ठतीति षडङ्गेषु व्याकरणमेव प्रधानम् । संस्कृतव्याकरणं प्रातिशाख्यमूलकमेव । वेदानां प्रतिशाखाम् आश्रित्य व्याकरणग्रन्था आसन्, ते च प्रातिशाख्यग्रन्था इति प्रसिद्धिम् आप्ताः । साम्प्रतं केचनैव प्रातिशाख्यग्रन्था उपलभ्यन्ते । ते कमप्येकं वेदम् आश्रित्य वर्तन्ते । तद्यथा-ऋग्वेदस्य शौनकप्रणीतम् ऋक्प्रातिशाख्यम् । एतदेव पार्षदसूत्रम् इत्यप्यभिधीयते । शुक्लयजुर्वेदस्य कात्यायनविरचितं शुक्लयजुः प्रातिशाख्यम्, कृष्णयजुर्वेदस्य तैत्तिरीयप्रातिशाख्यं । सामवेदस्य सामप्रातिशाख्यं पुष्पसूत्रं वा, पञ्चविधसूत्रं च । अथर्ववेदस्य अथर्वप्रातिशाख्यम् ।
व्याक्रियन्ते विविच्यन्ते शब्दा अनेनेति व्याकरणम् । एतदर्थमेव संस्कृतव्याकरणस्य जनिरभूत् । संस्कृतव्याकरणावबोधाय महर्षेः पाणिनेः अष्टाध्यायी प्राधान्यं लभते । लौकिकसंस्कृतेन सहैव वैदिकसंस्कृतस्यापि व्याकरणं तत्र प्रस्तूयते । अन्ये प्राचीना व्याकरणग्रन्था लुप्तप्राया एव । पाणिनीयसूत्रेषु कात्यायनेन वार्तिकाः पतञ्जलिना च महाभाष्यं विरचितम् । पाणिनिकात्यायन-पतञ्जलि-इति त्रयं मुनित्रयम् इत्यभिधीयते । तत्र पाणिनेरष्टाध्यायी सर्वाङ्गविभूषितत्वात् सर्वत्रादरं लेभते । पतञ्जले: महाभाष्यं च व्याकरणदर्शनस्य मूलम् । अत्र विशदीकृतस्य दार्शनिकभावजातस्य समाश्रयणं विधाय कैयटनागेश-भर्तृहरि-प्रभृतिभिः व्याकरणदर्शनस्य विकासो व्यधायि । वाक्यपदीयं व्याकरणदर्शनस्य मूर्धन्यं रत्नम् । संस्कृत-व्याकरण-विषये अन्येऽपि केचन ग्रन्थाः सादरं स्मर्यन्ते । तद्यथा-वामन–जयादित्य-कृता अष्टाध्याय्याः काशिकावृत्तिः, तत्र च जिनेन्द्रबुद्धिकृतो न्यासग्रन्थः, हरदत्तमिश्रकृता पदमञ्जरी च, भट्टोजिदीक्षितप्रणीताः सिद्धान्तकौमुदी-शब्दकौस्तुभ-प्रौढमनोरमा-ग्रन्थाः, नागेशभट्टकृताः शब्देन्दुशेखर-परिभाषेन्दुशेखर-मञ्जषा-स्फोटवादादिग्रन्थाः, वरदराजकृता लघुसिद्धान्तकौमुदी मध्यसिद्धान्तकौमुदी च ।
(३) छन्दः-वेदेषु मन्त्राः प्रायशश्छन्दोबद्धा एव । अतो वृत्तज्ञानाय छन्दःशास्त्रम् अनिवार्यम् । छन्दःशास्त्रविषयको मुख्यो ग्रन्थः पिंगल-प्रणीतं छन्दः सूत्रमेवोपलभ्यते । प्रातिशाख्यग्रन्थेष्वपि वृत्तविचारः प्राप्यते । एभ्य एव लौकिकछन्दोविषयकाणां ग्रन्थानां विकासः समजनि ।
(४) निरुक्तम्-निरुक्ते क्लिष्टवैदिकशब्दानां निर्वचनं प्राप्यते । विषयेऽस्मिन् यास्कप्रणीतं निरुक्तमेव प्रमुखो ग्रन्थः । अत्र मन्त्राणां निर्वचनमूलाया व्याख्यायाः प्रथमः प्रयासः समासाद्यते । वैदिकशब्दानां संग्रहात्मको