________________
२. वेदाङ्गानां महत्त्वम् ' (षडङ्गो वेदोऽध्येयो ज्ञेयश्च )
वेदार्थावबोधाय तत्स्वराद्यवगमाय तद्विनियोगज्ञानाय चासीद् महत्यावश्यकता केषांचित् सहायकग्रन्थानाम् । एतदभावपूर्तये एव जनिरभूद् वेदाङ्गानाम् । षडिमानि वेदाङ्गानि । १. शिक्षा, २. व्याकरणम्, ३: छन्दः, ४. निरुक्तम्, ५. ज्योतिषम्, ६. कल्पः । तथोच्यते
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु॥ षण्णाम् एतेषां महत्त्वं निरीक्ष्यैव पाणिनीयशिक्षायां प्रतिपाद्यते यत्छन्दः पादौ तु वेदस्य हस्तो कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ शिक्षा नाणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ पा० शिक्षा, श्लोक १४-४२ वेदाङ्गानामेतेषां विवरणं वेदार्थबोधोपयोगिता च समासतोऽत्र प्रस्तूयते ।
(१) शिक्षा-शिक्षाग्रन्था वर्णोच्चारणविधि विशेषतो वर्णयन्ति । कथं वर्णा उच्चारणीयाः, किं तेषां स्थानम्, कश्च तत्र यत्नः, कण्ठताल्वादीनाम् उच्चारणे किं महत्त्वम्, कति वर्णाः, कथं कायमारुतो वर्णत्वेन विपरिणमते, कति स्थानानि, कति स्वराः, कथं च ते प्रयोज्या इत्यादयो विषयाः शिक्षाग्रन्थेषु विविच्यन्ते । सायणेन ऋग्वेदभाष्यभूमिकायां शिक्षालक्षणम् उच्यते यत् स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते सा शिक्षा । तैत्तिरीयोपनिषदि शिक्षायाः स्वरूपं निरूप्यते यद्
वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः। इत्युक्तः शिक्षाध्यायः। तै०२-१ ___ एतच्च पाणिनिना मुनिनैवं विवियते-वर्णः अकारादिः, स्वराःउदात्तानुदात्तस्वरिताः, मात्रा:-ह्रस्वदीर्घप्लुताः, बलम्-स्थानप्रयत्नौ, सामसाम्येन विधिना माधुर्यादि-गुणसमन्वित-वर्णोच्चारणम्, सन्तानः-संहितापगठम् अनुसृत्य सन्धिनियमानुकूलं पदप्रयोगः । उच्यते च पाणिनीयशिक्षायाम्
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्य लयसमथं च षडेते पाठका गुणाः॥ (पा० ३३) साम्प्रतम् उपलभ्यमानेषु ३२ शिक्षाग्रन्थेष पाणिनीयशिक्षा प्रमुखा। अन्ये च विशिष्टाः शिक्षाग्रन्थाः सन्ति—याज्ञवल्क्यशिक्षा, व्यासशिक्षा, नारदशिक्षा, माण्डूकीशिक्षा चेति । वर्णोच्चारणादिविधि-ज्ञानम् अन्तरेण न शक्यो वेदानां विशुद्धः पाठोऽर्थावगमश्चेति । 'शिक्षा घ्राणं तु वेदस्य' व्याहरता पाणिनिना शिक्षाग्रन्थानां नासिका स्थानीयत्वं स्वीक्रियते ।