________________
संस्कृतनिबन्धशतकम्
नयनम्, राजतन्त्रीया प्रजातन्त्रीया च शासनव्यवस्था, शत्रु संहारः, सामदण्डादिविधीनां प्रयोगः, समुपलभ्यन्ते । वेदेषु राज्ञो निर्वाचनस्य प्रजातन्त्रीयाया राज्यव्यवस्थायाश्चापि समुल्लेखो विविधेषु स्थलेषु उपलभ्यते । तद्यथा— विशस्त्वा सर्वा वाञ्छन्तु ० ( अथर्व ० ६-८७ - १ )
त्वां विशो वृणतां राज्याय । ( अथर्व ० ३ - ४-२ ) महते जानराज्याय ० । ( यजु० ९-४० )
भाषावैज्ञानिकं महत्त्वम् - तुलनात्मकभाषाविज्ञानस्याध्ययनाय वेदानाम् अतीव महत्त्वं विद्यते । वेदा विश्वस्य प्राचीनतमाः समुपलब्धा ग्रन्थाः । तत्रापि ऋग्वेदस्य प्राचीनतमत्वेन भाषायाः प्राचीनतमं रूपं प्राप्यते । पारसीकधर्मग्रन्थ-जेन्दावेस्ता ( छन्दोऽवस्था ) ग्रन्थेन सह तुलनायाम् अवेस्ता - भाषया सह वैदिकभाषाया घनिष्ठः सम्बन्धो दृश्यते । ऋग्वेदीया मन्त्रा अवेस्ताभाषायाम् अवेस्ता- मन्त्राश्च वैदिकमन्त्रेषु च परिवर्तयितुं शक्यन्ते । तुलनात्मकभाषाविज्ञानस्य दृष्ट्या विशेषतो वेदानाम् अध्ययनं पाश्चात्त्य देशेषु प्रवृत्तम् । वैदिक-संस्कृतभाषाया लौकिक - संस्कृतस्य ततश्च भाषाणाम् अन्यासां जनि - क्रमस्यावबोधाय वेदानाम् अध्ययनम् अनिवार्यम् ।
"
४
ऐतिहासिकं महत्त्वम् -- वेदेषु कतिपये ऐतिह्यावबोधकाः सन्दर्भा अपि तत्र तत्रोपलभ्यन्ते । तानाश्रित्य संदर्भान् विद्वद्भिः प्राचीनतमम् ऐतिह्यं प्रस्तूयते । तत्र गङ्गादीनां नदीनाम् ( ऋग्० १०-७५-५ ), दाशराज्ञयुद्धस्य ( ऋग्० ७-८३-७ ), पञ्च जनानान् ( ऋग्० ३ - ३७-९), विविधानां वर्णानां वृत्तीनां च (यजु० ३०-५-२२ ) उल्लेखः प्राप्यते ।
काव्यशास्त्रीयं साहित्यिकं च महत्त्वम् - काव्यशास्त्रीयदृष्ट्याऽपि वेदानां महत्त्वं प्रशस्यम् । तत्र अनुप्रास - यमक - रूपकादीनाम् अलंकाराणां प्रयोगोऽनेकत्र प्राप्यते । उषः सूक्ते उषसो वर्णने कवित्वस्य स्फुटं दर्शनं जायते । सुन्दरी युवतिः स्ववस्त्राणीव उषाः स्वीयं सौन्दर्यं विस्तारयति । सकलेऽपि भुवने तस्याः सौन्दर्यम् आहलादकारि व्याप्नोति
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
स्वर्जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्या: ॥ (ऋग्० ३ - ६१-४) एवं वेदाध्ययनं जीवनं पावयति, चिन्ताकुलं जगत् चिन्तायास्त्रायते, लोकानां विविधाः समस्या निवारयति, जीवनम् उन्नमयति, सद्भावांश्च प्रेरयति इति सर्वथा वेदानां महत्त्वं सिध्यति ।
1
वेदानां महत्त्वम् अङ्गीकृत्यैव भारतीयैः पाश्चात्त्यैश्च विपश्चिद्भिः वेदाध्ययने स्वजीवनं यापितम् । तद् यथा - सायणाचार्य - वेंकटमाधव - महर्षि - दयानन्द - मधुसूदन ओझा - मोतीलाल शर्मा - वासुदेवशरण अग्रवाल- मैक्समूलररुडाल्फ रॉठ-विल्सन-ग्रिफिथ-मैकडानल प्रभृतयो विद्वत्तल्लजाः ।