________________
वेदानां महत्त्वम्
शास्त्रीयं महत्त्वम्-वेदानां शास्त्रीयं महत्त्वं सर्वतोमुख्यं वर्तते । 'सर्वज्ञानमयो हि सः' इति वदता मनुना वेदानां सर्वविधज्ञाननिधानत्वम् उरीकृतम् । यदि विचारदृशा समोक्ष्यते तहि वेदेषु बीजरूपेण दार्शनिकाः सिद्धान्ताः, राजनीतिः, समाजशास्त्रम्, अध्यात्मम्, मनोविज्ञानम्, आयुर्वेदः, गणितम्, अर्थशास्त्रम्, नाट्यशास्त्रम्, काव्यशास्त्रम्, कामशास्त्रम्, अन्याश्च विविधाः कलास्तत्र तत्र वर्ण्यन्ते । वैदिकं दर्शनम् अध्यात्मतत्त्वं चोपादाय उपनिषदो विविधानि दर्शनानि च प्रवृत्तानि । तथ्यमेतद् निदर्शनरूपेण नाट्यशास्त्रकृतो भरतमुनेविवेचनेन विशदीभवति
जग्राह पाठ्यम् ऋग्वेदात् सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ नाट्यशास्त्र १-१७ नैतिकं महत्त्वम्-वेदानाम् आचारशिक्षा-दृष्टया, नैतिक-दर्शनरूपेण चातीव महत्त्वं वर्तते । कर्तव्योद्बोधनरूपेण तेषां परमं प्रामाण्यं वर्तते । किं कर्म, किम् अकर्मेति चिन्तायां वेदा एवादर्शरूपेण प्रस्तूयन्ते । अतएव मनुनोच्यते
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चतुर्विधं प्राहुः साक्षात् धर्मस्य लक्षणम् ॥ मनु० २-१२ श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः।
इहकीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ मनु० २-९ धर्मचिन्तायां कर्तव्यविचारणे च वेदाः परमप्रमाणभूताः सन्ति ।
धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः॥ मनु० २-१३
सामाजिकं महत्त्वम्-समाजशास्त्रीयदृष्ट्याऽपि वेदा अत्यन्तं महत्त्वपूर्णाः सन्ति । समाजस्य विकासस्य, सभ्यतायाः समुन्नतेः, वर्णानां विविधवृत्तिपराणां नराणां च कर्मकलापस्य, सामाजिक्या व्यवस्थायाश्च महत्त्वपूर्णम् इतिवृत्तं वेदेषुपलभ्यते । प्राक्तनस्य समाजस्य किं स्वरूपमासीदित्यपि तत एवाप्तुं पार्यते ।
आर्थिकं महत्त्वम्-अर्थशास्त्रदृष्ट्याऽपि वेदानां महत्त्वम् अस्ति । वेदेषु प्रत्नाया अर्थव्यवस्थायाः स्वरूपं स्फुटं समवाप्यते। आदान-प्रदानस्य, क्रयविक्रयस्य, व्यापारस्य वाणिज्यस्य च, गवादिपशूनाम्, कृषि-धान्यादीनां च का व्यवस्थाऽवस्था चासीदित्यपि तत्र प्राप्तुं शक्यते । आदान-प्रदानस्य महत्त्वं यजुर्वेदे वर्ण्यते
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारं च हरासि मे निहारं निहराणि ते ॥ यजु० ३-५०
राजनीतिक महत्त्वम्-राजनीतिशास्त्रदृष्ट्यापि वेदानां महत्त्वं नावमूल्ययितुं शक्यते । वेदेषु राज्ञः प्रजायाश्च कर्माणि, राजतन्त्रस्य विविधं स्वरूपम्, राज्ञो वरणम्, सभायाः समितेश्च संस्थापना, मन्त्रिपरिषदो मनो