________________
संस्कृतनिबन्धशतकम्
यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ( मनु० २-७ ) सर्वेऽपि विद्वत्तल्लजा भारतीया दार्शनिकाः, आचारशिक्षणप्रवणाः स्मृतिकाराः, शब्दतत्त्वमीमांसादक्षा वैयाकरणाः, अन्ये च शास्त्रकारा वेदानां परमप्रामाण्यं प्रतिपदम् उद्घोषयन्ति । अतएव महर्षिणा पतञ्जलिना कर्तव्यत्वेन समादिश्यते यत्
M
ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च । ( महाभाष्य, आह्निक १) स्मृतिकारैर्न एतावतैव विरम्यते, अपितु निर्दिश्यते यत् ब्राह्मणेन एकनिष्ठया वेदाध्ययनं संपाद्यम् । एतद् ब्राह्मणस्य परमं तपः । यश्च वेदाध्ययनम् अवमत्य शास्त्रान्तरे कृतमतिः, स जीवन्नेव सपरिवारः शूद्रत्वम् उपयाति । वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ मनु० २-१६६ योsनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ मनु० २-१६८ वेदानां सांस्कृतिकं महत्त्वम् - भारतीयायाः संस्कृतेर्मूल स्रोतोऽनुसंधीयते चेत् तर्हि वेदा एव तन्मूलस्रोतस्त्वेनोपतिष्ठन्ति । वेदष्वेव प्रत्नतमा भारतीया संस्कृतिर्वणिताऽस्ति । भारतीयायाः संस्कृतेर्मूलरूपं वेदेष्वेवोपलभ्यते । वेदेष्वेव प्राक्तनभारतीयानां जीवनदर्शनं, कार्यकलापः, आचार-विचाराः, नैतिकं सामाजिकं च चरितं प्राप्यते । मानवानां विविधकर्तव्यादिनिर्धारणं तत्रैवोपलभ्यते । उक्तं च मनुना
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ मनु० १-२१ लोकमान्य-तिलकमहाभागास्तु वेदेषु प्रामाण्यबुद्धिमेव आर्यत्वस्य लक्षणं व्यादिशन्ति — 'प्रामाण्यबुद्धिर्वेदेषु', वेदेष्वेवार्याणां संस्कृतेविशुद्ध रूपं विस्तरशः प्राप्यते । आर्याणां यज्ञेषु दृढविश्वासः, एकेश्वरवादेन सहैव बहुदेवतावाद - स्यापि स्वीकरणम्, अनासक्तभावनया कर्मविधिः, ईश्वरस्य सर्वव्यापकत्वम्, ज्ञानकर्मणोः समन्वयः, भौतिकवादं प्रत्यनास्था, पुनर्जन्मनि विश्वास:, मोक्षस्यजीवनोद्देश्यत्वं चेत्यादितथ्यानि वेदेष्वेव प्राप्यन्ते ।
1
विश्वसंस्कृतेरैतिह्यं गवेषितं चेत् तर्हि वेदा एव सर्व प्रमुखत्वेन दृष्टिपथम् अवतरन्ति । अस्मिन् संसारे संस्कृतेः सभ्यतायाश्च कथमिव विकासोऽभूदित्यर्थं वेदानुशीलनम् अनिवार्यम् आपद्यते । तत एव क्रमिकविकासस्य प्रक्रिया प्राप्यते । अतएव यजुर्वेदे प्राप्यते - ' सा प्रथमा संस्कृतिविश्ववारा' ( यजु० ७ - १४), वैदिकी संस्कृतिः प्रथमा संस्कृतिरासीत् ।