________________
१. वेदानां महत्त्वम्
(वेदोऽखिलो धर्ममूलम् ) वेदशब्दार्थः–'विद ज्ञाने' इति ज्ञानार्थकाद् विद्धातोपनि प्रत्यये कृते वेद इति रूपं निष्पद्यते । एवं वेदशब्दो ज्ञानार्थकः । ज्ञानराशिर्वेद इति वक्तं शक्यते। विद सत्तायाम्, विद विचारणे, विद्लु लाभे, विद् चेतनाख्याननिवासेषु इति धातुभ्योऽपि घनि वेदरूपं निष्पद्यते । वेदा ज्ञानराशित्वात् शाश्वतस्थायिनः, ज्ञाननिधयः, मानवहितप्रापकाः, मनुज-कर्तव्य-बोधका इति विविधधात्वर्थग्रहणाद् ज्ञायते।
वेदानां वेशिष्टयम-वेदार्थानुशीलनाद् ज्ञायते यद् वेदा हि विविधज्ञानविज्ञान-राशयः, संस्कृतेराधाररूपाः, कर्तव्याकर्तव्यावबोधकाः शुभाशुभनिदर्शकाः, जीवनस्योन्नायकाः, विश्वहितसंपादकाः, आचार-संचारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारकाः, सत्यतायाः सरणयः कलाकलापप्रेरकाः, आशाया आश्रयाः, नैराश्य-विनाशकाः, चतुर्वर्गावाप्तिसोपानस्वरूपाश्च सन्ति ।
___ वेदानां महत्त्वविचारचिन्तायां कतिपयेऽनुयोगाः पुरतोऽवतिष्ठन्ते । कति वेदाः ? किं वेदानां महत्त्वम् ? किं वेदानां वेदत्वम् ? किं तत्र विशिष्टं ज्ञानम् ? किं तेषां व्यावहारिकी उपयोगिता ? किं वेदाध्ययनस्य जीवने उपयोगित्वम् ? किं च समस्याबहुले जगति समस्या-निराकरणत्वं वेदानाम् ? किं च वेदानां धार्मिक राजनीतिकम् आर्थिक भाषा-वैज्ञानिकम् ऐतिहासिकं काव्यशास्त्रीयं शास्त्रीय सामाजिक सांस्कृतिकं च महत्त्वम् ? इत्येवात्र समासतो विवियते प्रस्तूयते च ।
वैदिकं साहित्यम्-मुख्यत्वेन वेदशब्दः ऋग्यजुः सामाथर्वनामभिः प्रचलितानां चतसृणां वेदसहितानां बोधकः। एतेषामेव चतुर्णां वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति, येषु वैदिककर्मकाण्डस्य विशदं वर्णनमस्ति । एतेष वेदानाम् आध्यात्मिकी व्याख्याऽपि प्रस्तूयते । एतेषां परिशिष्टरूपेण आरण्यकग्रन्थाः सन्ति । एषु अध्यात्मविद्याया विवेचनं प्राप्यते । उपनिषत्सु च तस्या एवाध्यात्मविद्यायाश्चरमोत्कर्षः संलक्ष्यते। वैदिकसाहित्यशब्देन समग्रोऽपि मन्त्र-ब्राह्मण-आरण्यक-उपनिषत्-संग्रहरूपो निधिर्गृह्यते । अतएव 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' (आप० श्रौत० ३१ ) इति निर्दिश्यते ।
वेदानां धार्मिक महत्त्वम्-वेदा मन्वादिभिः ऋषिभिः परमप्रमाणत्वेनोपन्यस्ताः । 'वेदोऽखिलो धर्ममूलम् ( मनुस्मृति २-६ ) इति समुद्घोषयता मनुना समग्रस्यापि वेदनिधेर्धर्माधाररूपेण प्रतिष्ठा विहिता। मानवस्याखिलं कृत्यजातं कर्तव्याकर्तव्यं वा देवेषु विशदतया निरूप्यते । अतएव वेदा आचारसंहिता-रूपेण प्रमाणीक्रियन्ते ।