SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कृतज्ञता-प्रकाशनम्-ग्रन्थस्यास्य प्रकाशने प्रेरणास्रोतःस्वरूपा, दिवंगताऽपि भूमण्डलव्यापिनी श्रीमती ओमशान्ति द्विवेदी सततं संस्मर्यते । कुमारी भारती द्विवेदी, भारतेन्दुः द्विवेदी, धर्मेन्दु: द्विवेदी च सामग्री-संकलनादिषु साहाय्यम् आचरितवन्तः, तदर्थम् आशीर्वादभाजः । कुमारी प्रतिभा द्विवेदी, ज्ञानेन्दुः द्विवेदी, विश्वेन्दुः द्विवेदी, आर्येन्दुः द्विवेदी च कार्यस्यास्य निर्विघ्नं परिसमाप्त्यर्थम् आशीर्वादभाजः । प्रकाशकः श्रीपुरुषोत्तमदास मोदी एम० ए० मुद्रणव्यवस्थार्थम् अनवरतप्रेरणाप्रदानाथं च धन्यवादम् अर्हति । .. उपसंहारः-'आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्' ( शाकु० १-२) इति कालिदासभणितिम् अनुसृत्य विद्वत्परितोष एव मे परितोषविषयः। ग्रन्थान्तर्गताः त्रुटयः, संशोधन-परिवर्तन-परिवर्धनादिविचाराश्च कृतज्ञता-पुरःसरं स्वीकरिष्यन्ते। संस्कृतानुरागिणां छात्राणां समुत्कर्षः साफल्यं चेद् ग्रन्थेनतेन संपाद्यते तर्हि श्रमो मे फलेग्रहिः। एतदभिधाय विरम्यते यत् पुराणमित्येव न साधु सर्व, न चापि किंचिन्नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः॥ शान्तिनिकेतन, ज्ञानपुर ( वाराणसी) ) ज्येष्ठ पूर्णिमा कपिलदेवो द्विवेदी दिनांक-२३-६-७५ ई० द्वितीयं संस्करणम् हर्षावहोऽयं विषयो यद् विद्वद्भिः संस्कृतानुरागिभिश्च छात्रः ग्रन्थोऽयं समाहृतः । अल्पीयसैव कालेन ग्रन्थस्यास्य प्रथमसंस्करणस्य समाप्तिः संसूचयति लोकप्रियताम् । तदर्थ विद्वासः संस्कृतानुरागिणः छात्राश्च सुतरां धन्यवादार्हाः । द्वितीयेऽस्मिन् संस्करणे आवश्यक-सामग्री-संवर्धनम्, अपेक्षितं परिवर्तनं परिवर्धनं संशोधनं च विहितम् । आशासे परिवर्धनादि-समन्वितं संस्करणमिदं समेषामपि मुदम् आवक्ष्यतीति । शान्तिनिकेतन, ज्ञानपुर (वाराणसी) ) मकर-संक्रान्तिः, २०३६ वि० कपिलदेवो द्विवेदी दिनांक-१४-१-८० ई०
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy