________________
( १५ ) तथैव प्रचलितानामपि विषायाणां गौरवास्पदत्वम् । एतद् अवधार्यैव एकादशवर्गेषु -निबन्धशतकं विभाजितम् । शास्त्रीय-विषयैः सहैव सामाजिकाः, आर्थिकाः, राष्टीयाः, शैक्षिकाः, सांस्कृतिकाश्च विषया विवेचिताः व्याख्याताश्च । वर्गभेदम् आश्रित्य विवेचितानां विषयाणां संख्या अधोविन्यस्तरूपेण विद्यते-(१) वैदिकाः शास्त्रीयाश्च निबन्धाः-१०; (२) दार्शनिका निबन्धाः-६; (३) काव्यशास्त्रीया निबन्धाः-११; (४) साहित्यिका निबन्धाः-१५; (५) भाषावैज्ञानिका निबन्धाः-५; (६) सांस्कृतिका निबन्धाः-९; (७) सामाजिका निबन्धाः-५; (८) आर्थिका निबन्धाः-३; (९) राष्ट्रीया निबन्धाः-८; (१०) शैक्षिका निबन्धाः -८; (११) प्रकीर्णा निबन्धाः-२० । एवं व्याख्यातानां विषयाणां महत्त्वं स्वयमेव अवधारयितुं पार्यते।
विषयाणां प्रतिपादने सर्वत्रैव प्रामाणिकी सामग्री संकलिता वर्तते । यत्र मन्त्रादिकं पद्यादिकं वा उध्रियते तत्र तस्य प्रामाणिकः सन्दर्भोऽपि प्रस्तूयते।
ग्रन्थस्य वैशिष्टयम्-ग्रन्थस्यास्य केचन विशेषाः सन्ति, तेऽत्र समासत उपस्थाप्यन्ते:(१) शास्त्रीयाणां वैज्ञानिकानां लौकिकानां च विषयाणां संग्रहः । (२) सरल-सरस-ललित-परिष्कृत-प्राञ्जल-भाषाप्रयोगः। ( ३ ) पाण्डित्य-प्रदर्शन-निरसन-पुरःसरं मनोज्ञा भावाभिव्यक्तिप्रक्रिया, वैज्ञा
निकी विश्लेषण-पद्धतिश्च । (४) शास्त्रीयविषयैः सहैव राष्ट्रिय-सांस्कृतिक-सामाजिक-आर्थिक-शैक्षिकादि
विषयाणां विवेचनं विश्लेषणं च । (५) विषयप्रतिपादने वैज्ञानिक्या नवीनतमशैल्याः समाश्रयणम् ।। ( ६ ) तत्तद्विषयविवेचने प्रामाणिक-सामग्री-संकलनम्, प्रामाणिकः सन्दर्भ
निर्देशश्च । (७) विश्वविद्यालय-स्तरीय-निबन्धानां प्रामाणिकः संग्रहः। (८) संस्कृतानुरागिणां परीक्षादित्सूनां चानुपमो निधिः । (९) धारावाहिक-भाषा-प्रयोगः, भाषा-काठिन्यापनोदनं च । (१०) राष्ट्रिय-सामाजिक-आर्थिकादि-विषय-विवेचने प्रामाणिक-सामग्री-संकल
नम् । तद्विषये भारतीय-पाश्चात्त्यादिविदुषां मतप्रकाशनम् । . (११) शैक्षिकादिविषयेषु, विवादास्पदेषु च केषुचिद् विषयेषु याथातथ्यतो
विषयविवेचनं स्वमतप्रकाशनं च । स्थूलाक्षरोपयोगेन मुद्रण-सौन्दर्यम्, स्फुटा भावाभिव्यक्तिः, मुद्रण-त्रुट्यभावः, लोकोपयोगित्वं च।
(१२)