________________
अनुपयोगि विवरणं निरस्य, वाग्जालं परिहृत्य, साधिष्ठया विवृत्या विषयप्रतिपादनं व्यधायि । भाषा सुरुचिरा, प्रौढा, परिष्कृता, मनोज्ञा स्यादिति प्रतिपदं प्रयत्न आस्थितः। शास्त्रीयेषु विषयेषु शास्त्रीया शैली समाश्रिता । विषयप्रतिपादनं शास्त्रीयया पद्धत्या व्यधायि । विषयावबोधः सारल्येन स्यादिति यथाशक्ति प्रयतितम् । सामाजिका राष्ट्रिया आर्थिकादिविषयका निबन्धा युक्ति-प्रमाण-पुरःसरं प्रामाणिक-सामग्री-संकलनसमवेता उपन्यस्ताः ।
भाषा-ग्रन्थेऽस्मिन् संस्कृतभाषायाः परिष्कृतं स्वरूपम् उपन्यस्तम् । भाषा नातिकठिना, नातिसरला, नातिपाण्डित्यप्रदर्शनपरा, न दुरवबोधा, न दुर्गाह्या, न भावबोधनसामर्थ्यरहिता, न निःसारा, न च पादपू]कदृशा प्रयुक्ता । परिष्कृत्या सममेव अर्थगाम्भीर्यम्, रुचिरपदावली-संकलनम्, माधुर्यम्, प्राञ्जलत्वं च संगृहीतं स्यादिति प्रतिपदं प्रायत्यत । क्वचिद् लोकप्रयोगम् आश्रित्य सत्यपि शुद्ध राष्ट्रिय-शब्दे ( राष्ट्रावारपाराद् घखो, अ०४-२-९३, इति घइय-प्रत्ययः), राष्ट्रीयशब्दोऽपि (वृद्धाच्छः, अ०४-२-११४ इति छ-ईय-प्रत्ययः) बहुधा प्रयुक्तः । एवमेव अर्थवेशद्यम् आश्रित्य-पूंजीवादः ( Capitalism ), पंजीवादिनः ( Capitalists ) इत्यादयः शब्दा अपि यथास्थानं प्रयुक्ताः । एवमेव विविधस्थलेषु नव-भावावबोधनार्थं वैज्ञानिकाः प्रचुरप्रयोगाश्च शब्दाः एटमबम-कार-रेडियो - ट्रान्ज़िस्टर-टैंक-सबमैरीन-राडार - राकेट-एक्सरे-अल्ट्रावायोलेट रेज़-कैमरा-ग्रामोफोन-रोटरी मशीन-टाइपराइटर-टेपरिकार्डर-साइक्लोस्टाइल मशीन-स्कूटर-लप-प्रभृतयो यत्र तत्र संस्कृतीकरणम् अनाश्रित्य प्रयुक्ताः। ते विद्वद्भिर्लोकधर्म युगधर्म चान्वीक्ष्य न विप्रतिपत्तव्याः।।
भाषा-विषये इदं चापरं वक्तव्यं यत् क्वचित् क्वचिद् अर्थस्पष्टीकरणम् आश्रित्य सति संभवेऽपि सन्धि-समाश्रयणे न अनिवार्यतः सन्धिप्रयोगो विहितः । यत्र कृतेऽपि सन्धौ नार्थावगमे काठिन्यं तत्र सन्धिर्विहितः । अर्थावबोधे काठिन्ये सति सन्धिपरिहारो विहितः । ।
प्रतिपाद्या विषयाः-निबन्धानां विषय-संग्रहे काचिद् नवीनताऽत्र परिलक्षिष्यते । संस्कृते प्रचलिताः शास्त्रीयाः साहित्यिकाः प्रकीर्णाश्च विषयाः समेषामेव दृग्गोचरताम् उपयान्ति, परम् अद्यत्वे न प्राचीना एव विषयाः पर्याप्ताः । आधुनिका अपि विषयाः सर्वत्र जिज्ञासाविषयाः परीक्षाविषयाश्च । तद्यथा-पञ्चवर्षीया योजनाः, कुटीरोद्योगः, सहकारितान्दोलनम्, परिवारनियोजनम्, जनतन्त्रम्, समाजवादः, साम्यवादः, विश्वशान्तेरुपायाः, छात्राणां राजनीतौ प्रवेशः, भारतीयानां भाषाविज्ञाने योगदानम्, भाषोत्पत्तिविषयका वादाः, विज्ञानस्य लाभा दोषाश्च, भारतीय-शिक्षापद्धती अपेक्षिताः परिष्कासः, अभिनवभारते संस्कृतम्, अनुशासन-समस्या, त्रिभाषासूत्रं संस्कृतं च, इत्यादयः। एवं स्फुटमेतद् विज्ञायते यद् यथैव शास्त्रीयाणां विषयाणां महत्त्वं