________________
प्रास्ताविकम्
ग्रन्थ-रचनाया उद्देश्यम्-सर्वप्रथमम् अनुयोगोऽयं विचारचर्चाम् आरोहति यत् सत्सु दशाधिकेषु संस्कृत-निबन्ध-ग्रन्थेषु का नाम आवश्यकता नूतनस्य संस्कृत-निबन्ध-ग्रन्थस्य ? यदि याथातथ्येन विविच्यते तहि सुतरां स्फुटमेतद् आपद्यते यत् सन्ति केचन निबन्धग्रन्थाः लघुकलेवराः, अन्ये महाकायाश्च । केचन लघोयांसः, अन्ये च महीयांसः । केचन परिष्कृताः, अन्ये च विविधदोषबहुलाः केचन वाग्वैदग्ध्यप्रधानाः पाण्डित्यप्रदर्शनप्रवणाः, शास्त्रीयपद्धतिसमाश्रयणकरसिकाः, दुर्बोधाः, अहृदयङ्गमाश्च, अन्ये तु अनावश्यक-विस्तारबहुलाः, अपरिष्कृत-भाव-भाषोपेताः, मुद्रणादिदोषसंवलिताः, दुरास्वाद्याश्च । दशहायनपूर्वं मया याऽऽवश्यकता अन्वभूयत प्रौढस्य विश्वविद्यालय-स्तरीयस्य समीक्षात्मकस्य संस्कृत-निबन्ध-ग्रन्थस्य, सा रचनयाऽनया पूर्तिमुपैतीति न केवलं मामकं स्वान्तम्, अपि तु समेषां सचेतसां विपश्चितामपि मुदम् आवक्ष्यतीति मे निश्चितं मतम् ।
निबन्धरचनायां के गुणा विशेषतः समावेश्या इति विचारे निश्चप्रचं मे मतिरुदेति यद् नवीनेषु निबन्धग्रन्थेषु विविधविषयावगाहि ज्ञानं संगृह्येत, गीर्वाणवाण्यास्तत्र तथाविधं स्वरूपम् उपस्थाप्येत यथा देववाण्यां विदुषाम् अभिरुचिर्वर्धेत, तादृशी भाषा प्रयुज्येत या सारल्येन हृदयङ्गमा स्यात्, विषयविवेचनं तथा प्रस्तूयेत यथा ज्ञानसंवर्धनेन सममेव प्रामाणिकी सामग्रीमपि समुपस्थापयेत् । तत्र पाण्डित्यप्रदर्शनं निरस्य, दार्शनिकी भाषाशैलीम् अननुरुध्य, अनर्थकं वाग्जालं परिहाय, अनपेक्षितम् अपास्य, परिष्कृतया भाषया, प्राञ्जलया शैल्या, हृदयंगमया भावाभिव्यक्तिप्रक्रियया, मनोज्ञया साधिष्ठया प्रेष्ठया च विवृत्या विषयप्रतिपादनं स्यात् ।।
पूर्वोक्त-वैशिष्टयं संग्रहीतुकामेन मयाऽत्र तादृशी शैली समाश्रिता यया प्रतिपदं प्रतिपलं गीर्वाणवाण्या अध्ययने पठने अनुशीलने व्यवहारे च न केवलं संस्कृतानुरागिणां सुधियामेव प्रवृत्तिः स्यात्, अपि तु सामान्यधियाम् अल्पधियां चापि जिज्ञासूनाम् अभिरुचिः प्रवर्धेत ।
___ग्रन्थस्य शैली-ग्रन्थेऽस्मिन् कतिपये विशेषा अपि समभिनिवेशिताः । इंग्लिश्-जर्मन-फ्रेंच-भाषादिषु निबन्ध-विषये नव्या वैज्ञानिकी शैली समाश्रीयते। तत्र न केवलं साधीयसी भाषैव महत्त्वम् आश्रयते, अपि तु विषय-प्रतिपादनं तथा सयुक्तिकं सुव्यवस्थितं प्रामाणिक-सामग्री-संकलितं स्यात्, यथा विषयविवृतिः सर्वाङ्गीणा हृद्या च स्यात् । सैव वैज्ञानिकी शैली ग्रन्थेऽस्मिन् अपि समाश्रिता प्रयुक्ता च । विषय-विवेचने भारतीयानां पाश्चात्त्यानां च विपश्चितां तत्र तत्र किम् अभिप्रेतमित्यपि साधु उपन्यस्तम् । तत्र पाण्डित्यप्रदर्शनं व्युदस्य,