SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् (च) राजनीतिविषयकाः-प्रभावशक्तिमन्त्रशक्तिरुत्साहशक्तिश्चेति त्रयं यथा अक्षयमर्थ सूते तथा सुदक्षिणा पुत्रं रघुम् असूत । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्यमक्षयम्। रघु० ३-१३ सीता लवकुशौ तथैवाजनयद् यथा क्षितिः संपन्नौ कोशदण्डाविव सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥ रघु० १५ -१३ । (छ ) ज्योतिषविषयकाः-यथा चन्द्रग्रहणानन्तरं रोहिणी शशिनम् उपैति तथैव शकुन्तला दुष्यन्तमुपगता।। उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ शाकु०७-२२ (२) मूर्तस्यामूर्ततत्त्वेन साम्यम-कालिदासः प्रायशो मूर्तस्य मूर्ततत्त्वेन साम्यं प्रदर्शयति । क्वचिच्च मूर्तस्य अमूर्ततत्त्वेन, सजीवस्य निर्जीवेन, भावपदार्थस्य अभावपदार्थेन औपम्यं प्रतिपादयति । यथा-दिलीपः क्षात्रधर्मवद् बभौ–'आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः' ( रघु० १-१३) । स नन्दिन्या धवलं क्षीरं यशसोपमिमीते-शुभ्रं यशो मूर्तमिवातितृष्णः' ( रघु० २-६९ )। दिलीपस्य रथं मनोरथेनोपमिमीते-'ययावनुद्घातसुखेन मार्ग स्वेनेव पूर्णेन मनोरथेन' ( रघु० २-७२ )। रामादयश्चत्वारोऽपि भ्रातरश्चतुर्वर्गस्यावताररूपेण बभुः । 'धर्मार्थकाममोक्षाणाम् अवतार इवाङ्गवान्' ( रघु० १०-८४ ) । क्वचित् निर्जीवस्यापि सजीवेन सहौपम्यं लक्ष्यते-सिप्रावातः चाटुकारो जन इव स्त्रीणां खेदं हरति-'यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः, सिप्रावातः प्रियतम इव प्रार्थनाचाटकारः' । मेघ० १-३१)। स पार्वतीपरमेश्वरौ वागर्थाविव स्तौति । 'वागर्थाविव संपृक्ती वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतोपरमेश्वरौ ।' रघु० १-१ (३) प्रकृतिसंबद्धाः-कामदेवविनाशविषण्णा रतिः वायुवेगाहतदीपस्य धूमावृतवतिकेव विषादनिमग्ना संजाता। शोकाकुलस्य जनस्य अतीव मनोहरं मनोवैज्ञानिक विश्लेषणमिदम् । कालिदासस्य प्रथिततमासूपमासु एकतमैषा । सौन्दर्यमेतस्या विवेच्यम् गत एव न ते निवर्तते, स सखा दीप इवानिलाहतः। अहमस्य दशेव पश्य माम, अविषह्यव्यसनेन धूमिताम्॥ कुमार० ४-३० एकाऽन्या हृद्या कल्पनामलोपमा प्रस्तूयते । अत्र राज्ञो दिलीपस्य राश्याः सुदक्षिणायाश्चान्तरे वर्तमाना कामधेनुसुता नन्दिनी तथैवाशोभत यथा दिवस-रात्र्योर्मध्ये सन्ध्या । यथा सन्ध्याया महत्त्वं तथैव नन्दिन्या महत्त्वमत्राभिव्यज्यते पुरस्कृता वर्त्मनि पार्थिवेन, प्रत्युद्गता पार्थिवधर्मपत्या। तदन्तरे सा विरराज धेनुदिनक्षपामध्यगतेव सन्ध्या ॥ रघु० २-२०
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy