________________
उपमा कालिदासस्य
एकतो विश्व सुन्दरीसंकाशा गौरवर्णा गौरी, अपरतश्च वीतरागोऽवधूतो व्रती पिनाकी । विश्वसुन्दरीगौरीवदनदर्शनसंजातक्षोभो हरस्तथैव व्याक्षिप्तमना मनागभूद् यथा विधुदर्शनेन जलनिधिः
हरस्तु किंचित् परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥
१०१
कुमार० ३-६७
मगधेश्वरं परन्तपनामानं नृपं नक्षत्रादिमध्ये चन्द्रमिव मन्यते - कामं नृपाः सन्तु सहस्रशोऽन्ये, राजन्वती माहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघु० ६ - २२ सीतापरित्यागविषण्णो रामोऽश्रुपूर्णनेत्रः पौषचन्द्र इव व्यराजत"
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः । रघु० १४-८४ शकुन्तलायाः कमनीयं कलेवरं लतामनुचकार । कविकल्पनाऽत्र रम्या — अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू 1
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ शाकु० १-२१ शोकविह्वला यक्षपत्नी विधुकलेवालक्ष्यत - 'प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः' ( मेघ० २ - २९ ) । कण्वस्याशीर्वादो यत् शकुन्तला सूर्यमिव तेजस्विनं सुतं प्रसूयेत - ' तनयमचिरात् प्राचीवार्कं प्रसूय च पावनम्' ( शाकु० ४- १९ ) । कण्वमुनि प्राप्ता शकुन्तला अर्कवृक्षोपरि पतितं कुसुममिवास्त'अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ' ( शाकु० २-८ ) । राजा दुष्यन्तः शकुन्तलां पुष्पमिव, रत्नमिव, मधुवच्च गणयति
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै
नाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥ शाकु० २ - १०
(४) विविधविषयसंबद्धा: - सिंहप्रभावाद् इषु-प्रयोगे विफलीकृतो दिलीप: शिवशक्त्या निश्चलीकृत इन्द्र इव रराज । 'जडीकृत स्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणि:' ( रघु० २- ४२ ) । इन्द्रधनुः संपर्केण मेघस्य सैव शोभा भविता वा मयूरपक्षेण गोपवेषस्य विष्णोः । ' येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते, बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ' ( मेघ० १ - १५ ) । कालिदासः कवियशोलाभार्थिनम् आत्मानम् उद्बाहु वामनम् इव मनुते । 'प्रांशुलभ्ये फले लोभाद् उद्वाहुरिव वामनः' ( रघु० १ - ३ ) । कैलासेऽलका नगरी प्रासादसंगता मेघावृता च तथैवातितरां रोचते यथा मुक्ताग्रथितम् अलकं दधाना काचित् कामिनी
या वः काले वहति सलिलोद्गार मुच्चैविमाना
मुक्ताजालप्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ मेघ० १- ६३