SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ संस्कृतनिबन्धशतकम् .. साम्यमूलका अलंकाराः कालिदासो न केवलम् उपमाया एव प्रयोगे निष्णातोऽपि तु साम्यमूलकेषु रूपकोत्प्रेक्षातिशयोक्त्यादिषु अलंकारेषु तथैव दाक्ष्यं धत्ते । यधुपमाया व्यापकोऽर्थो गृह्येत तर्हि एषामप्यलंकाराणां संग्रहोऽत्र संभाव्यते । 'उपमा कालिदासस्य' इत्यत्र तात्त्विकदृष्टया व्यापकोऽर्थोऽभिप्रेतः । एवं चोत्प्रेक्षादीनामत्र समाहारः। यथा-'ध्रुवं स नीलोत्पलपत्रधारया, शमीलतां छेत्तमषिय॑वस्यति' (शाकू०१-१८) शकुन्तलायाः तपःसाधनं कमलपत्रेण शमोलताछेदनमिवास्ते । अत्रोत्प्रेक्षाया उपमामूलकत्वम् । शकुन्तला विद्युद्वदास्ते । न प्रभातरलं ज्योतिरुदेति वसुधातलात्' ( शाकु० १-२६ ), अत्राप्रस्तुतप्रशंसाया उपमामूलकत्वम् । संगमवर्णने मालोत्प्रेक्षाया उपमामूलकत्वम् यथा-'क्वचिच्च कृष्णोरगभूषणेव, भस्माङ्गरागा तनुरीश्वरस्य' ( रघु० १३-५७) पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः। लतावधूभ्यस्तरवोऽप्यवापुविनम्रशाखाभुजबन्धनानि ॥ कु० ३-३९ लता वधूवद् व्यवहरन्ति । अत्रौपमामूलकं रूपकम् । क इह रघुकारे न रमते-कस्याभिरूपस्य रघुवंशं न प्रियम् । रघुवंशं वस्तुतः कालिदासस्य कवित्वपरिपाकस्य चरमोत्कर्षः । कालिदासस्य प्रतिभाया यादृशः परिष्कारो वैशारा वैशद्यं च रघुवंशे निरीक्ष्यते न तथाऽन्यत्र । 'कलासीमा काव्यम्' काव्येषु च रघुवंशम् । अत्र न केवलम् उपमाया एव प्राधान्यम्, अपि तु अन्येषामपि शब्दालंकाराणाम् अर्थालंकाराणां च विनिवेशो यथायथं विधीयते । रसदृष्ट्या, भावदृष्टया, भाषादृष्टया, कथासंयोजन-सौष्ठवदृष्टया, चरित्रचित्रणदृष्टया, रुचिरसंलापदृष्ट्या, अन्यया वा कयाचिद् दृष्ट्या परीक्ष्यते समीक्ष्यते चेत् तहि रघुवंशं सर्वेषामपि विपश्चितां हृदयावर्जकत्वेन सरसत्वेन मनोज्ञत्वेन भावाभिव्यञ्जनदक्षत्वेन च प्रीतिपात्रं स्तुतिपात्रं श्रद्धास्पदं चास्ते । अत एवोच्यते-कालिदास एवैकः कविः । 'कविः कालिदासः ।'
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy