SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ३०. भारवेरर्थगौरवम् ( नारिकेलफल - संमितं वचो भारवेः ) अर्थदीधितिसंदीप्ता, विज्ञपद्म विकासिनी । ज्ञानालोकसदादर्शा, भा रवेरिव भारवेः ॥ ( कपिलस्य ) भारवेर्वृत्तम् — महाकविर्भारविः ईसवीयाब्दस्य षष्ठ्यां शताब्द्यां जनिमवाति ६३४ ईसवीये लिखितेन 'ऐहोल' - ( Aihole ) शिलालेखेन निर्विवादं निर्णीयते । उदीर्यते च तत्र रविकीर्तिना - येनायोजि नवेऽश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म | स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥ अवन्तिसुन्दरीकथामाश्रित्य दाक्षिणात्योऽयमिति विपश्चिद्भिः स्वीक्रियते । स चायं पुलकेशिद्वितीयस्यानुजस्य विष्णुवर्धनस्य सभापण्डितोऽभूत् । तस्य कृतिरेकैव 'किरातार्जुनीयम्' इति समधिगम्यते । समुपलब्धमनेनानुपमं यशः स्वकीयेन अर्थभारभरितेन किरातार्जुनीय - महाकाव्येन । किरातार्जुनीयस्य वैशिष्ट्यम् -- किरातार्जुनीयमदो गुणत्रय-समन्वित - त्वाद् भाषासौष्ठवाद् भावागाम्भीर्याद् रसान्वितत्वाद् अलंकारालंकृतत्वात् कल्पनाप्रचुरत्वात् सायासरचनानैपुण्याद् विद्वज्जनकण्ठहारत्वम् अगात् । कृतिरियं तस्यार्थगौरवसम्पन्नेति दर्श दर्श विपश्चिद्भिः 'भारवेर्थगौरवम्' इति साह्लादमुद्गीर्यते । महाकाव्यस्यैतस्य टीकाकृत् श्रीमल्लिनाथः काव्यमेतद् नारिकेलफलेनोपमिमीते, बहिः अर्थंगाम्भीर्यमूलकक्लिष्टत्वाद् अन्तश्च सरसार्थवत्त्वाद् रसाप्लुतत्वम् । उक्तं च नारिकेलफलसंमितं वचो भारवेः सपदि तद् विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥ मल्लिनाथः काव्यमेतद् बृहत्त्रय्यामन्यतमं गण्यते । ग्रन्थद्वयं चान्यद् वर्तते - माघविरचितं शिशुपालवधम्, श्रीहर्षप्रणीतं नैषधीयचरितं च । समग्रेऽपि संस्कृतवाङ्मये नैतादृशम् ओजोगुणसमन्वितं काव्यान्तरम् । अष्टादशात्र सर्गाः । किरातवेषधारिणा शिवेन सहार्जुनस्य संगरोऽत्र वर्ण्यते । वीररसोऽत्र प्रधानः, रसाश्चान्ये गौणाः । श्री - समन्वितं काव्यमेतदिति संसूचनाय 'श्री' शब्देन महाकाव्यमारभते, प्रतिसर्गान्ते च 'लक्ष्मी' शब्दं प्रयुङ्क्ते । 1 'दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु' ( कि० १.४६ ) इत्यनेन भारवेस्तरणिवत् काव्याकाशे भासमानत्वं ज्योतिर्वलयितत्वं च व्यज्यते । निराशासन्त्रस्तस्वान्ते प्रकाशकिरण प्रकाशनेन व्यपगमयति मोहतिमिरम् । 'पुरुषस्तावदेवासो यावन्मानान्न हीयते ( कि० ११-६१ ) । ' जन्मिनो मानहीनस्य तृणस्य च समा गतिः' ( कि० ११-५९ ) ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy