________________
१०४
संस्कृतनिबन्धशतकम्
भारवेः अभिनवशैलीसंस्थापकत्वम्-भारविः संस्कृतवाङ्मये अभिनवायाः शैल्याः प्रवर्तकः । काव्ये किस् अर्थगौरवमेव स्यात्, भाषालावण्यं वा, भावगाम्भीर्य वा, सरसा परिष्कृता पदावली वा, प्रौढो बन्धो वेति प्रतिपुरुषं रुचिवैचित्र्यात् नेक: साधीयान् अध्वा । एतदेव विव्रियमाणेन तेन रुचिभेदोऽभिधीयते
स्तुवन्ति गुरुमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः। इति स्थितायां प्रतिपूरुषं रुचौ, सुदुर्लभाः सर्वमनोरमा गिरः ॥ कि० १४-५
इति विप्रतिपत्तौ कतमा सरणिरास्थेयेति विवेचयता तेन स्वाभिमतम् उपस्थाप्यते यत् काव्ये प्रसाद-माधुर्यगुणसंयोजनेन पदानां विशदत्वम्, अर्थगौरवसमन्वितत्वं, पुनरुक्तिदोषाभावः, वर्णनानां क्रमबद्धत्वम् अनिवार्यम् । एवं स गुणालंकाररसभावानां समन्वयम् ईहते--
स्फुटता न पदैरपाकृता, न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां, न च सामर्थ्यमपोहितं क्वचित् ॥ कि० २-२७
'शक्तिनिपुणता....."काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे' ( काव्य० १-३ ) इति मम्मटोक्तिमनुसृत्य शक्ति नैपुण्यम् अभ्यासं चान्तरेण न काव्यत्वं सिद्धयति । भारविस्तत्र प्राकृत-पुण्यकर्मणां परिपाकेनैव प्रसन्नगम्भीरपदायाः सरस्वत्या उद्भवं प्रतिपादयति । पुण्यपारिपाकेनैव श्रुतिमधुरा वाग् उदेति--
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ कि० १४-३
न केवलम् अगाधपाण्डित्यमेव काव्यत्वजनकम्, अपि तु निरन्तराभ्यासेन उत्कटसाधनया च गम्भीरार्थस्य सरलया शैल्याऽभिव्यक्तिः संभाव्यते । साधनयैव स्वाभीष्टभावाभिव्यक्ति:--
भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये। नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमथं कतिचित् प्रकाशताम् ॥ कि० १४-४
काव्यासौन्दर्यम्--काव्ये विस्तारमपास्य अर्थगौरवसमन्वितस्य संक्षिप्तस्य वाक्यजातस्य प्रयोगस्तथैव सुखदः परिणामसुखश्च, यथाऽल्पस्य महाप्रभावस्य भेषजस्य प्रयोगो महाव्याधिनिराकरणेन सुखावहः । तादृश्येव वचोयुक्ति: काव्ये साधीयसी--
परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ कि० २-४
भारवेः काव्यसौन्दर्यम् उद्वीक्ष्यैवास्य 'आतपत्र-भारविः' इत्युपनाम संजातम् । वात्ययोद्गतः पद्मरागो वियति सवर्ण-आतपत्र-लक्ष्मी धत्ते । सवर्णछत्रस्य व्योम्नि कल्पनैव कविम् ‘आतपत्रम्' आपादयति ।