________________
उपमा कालिदासस्य
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव । रघु० १-११ मनुस्तथैव नृपाणामग्रिमोऽभूद् यथा मन्त्राणामोंकारः । सुदक्षिणा नन्दिन्या मार्गं तथैवान्वगच्छद् यथा स्मृतिः श्रुतेरर्थम् —
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघु० २-२ ( ख ) दर्शनविषयका : - यथा बुद्धेः कारणम् अव्यक्तं मूलप्रकृतिर्वा, तथा सरयूनद्याः कारणं मानसं सरः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति । रघु० १३ - ६० दिलीपस्य कृतिविशेषाः प्राक्तनाः संस्कारा इव फलानुमेया आसन् फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ रघु० १-२० गम्भीराया नद्या पयो निर्मलं मानसमिव वर्तते, मेघश्च तत्र छायात्मेव प्रतिबिम्बितो भविता
९९
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने । छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥
मेघ० १ - ४३ (ग) यज्ञविषयका :- नृपो दुष्यन्तः शकुन्तलाऽपत्यं भरतश्च त्रयमेतत् क्रमशो विधि: श्रद्धा वित्तं चेति त्रयाणां समन्वयो वर्तते —-
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ शाकुन्तल ७ - २९ शकुन्तलाऽनुरूपं भर्तारं तथैव प्राप्ता यथा धूमाकुललोचनस्य यजमानस्य वह्नावाहुतिः ।
दिष्ट्या धूमाकुलित दृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । ( शाकु० अंक ४ ) ( घं) विद्याविषयकाः - विद्या यथाऽभ्यासेन चकास्ति तथा नन्दिनी सेवया प्रसादनीया ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघु० १-८८
दुष्यन्तपरिणीता शकुन्तला सुशिष्यप्रदत्ता विद्येवाशोचनीयाऽभूत् ।
सुशिष्यपरिदत्ता विद्येवाशोचनीयाऽसि संवृत्ता । शाकु० अंक ४ (ङ) व्याकरणविषयकाः - अपवादनियमो यथोत्सगं बाधते तथैव शत्रुघ्नो लवणासुरं बबाधे ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥ रघु० १५-७ अध्ययनार्थकाद् 'इङ्' धातोः पूर्वम् 'अधि' उपसर्गो यथा शोभाकृद् व्यर्थश्च तथा शत्रुघ्नेन समं सेना
पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ रघु० १५-९