SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २९. उपमा कालिदासस्य ( क इह रघुकारे न रमते) कालिदासस्य कवित्वम्-कविताकामिनीकान्तः कालिदासः कस्य ना. वर्जयति चेतः सचेतसः। तस्य काव्यसौन्दर्य प्रेक्षं प्रेक्षं प्रशंसन्ति सहृदयाः सुधियस्तस्य कलाकौशलम् । तस्य सूक्तयः सुधासिक्ता मञ्जर्य इव चेतोहराः सन्ति | अत उच्यते बाणभट्टेन हर्षचरिते–'निर्गतासु न वा कस्य कालिदासस्य सक्तिष । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते' (हर्ष० १-१६)। कालिदासोऽतिशेते सर्वानपि महाकवीन् औपम्ये । अतः साधूच्यते-'उपमा कालिदासस्य ।' उपमायाः स्वरूपम्-का नामोपमा ? कथं चैषा उपकर्वी काव्यस्य ? विश्वनाथानुसारम्-'साम्यं वाच्यमवैधम्यं वाक्यैक्य उपमा द्वयोः' (सा० दर्पण १०-१४) । वस्तुद्वयस्य वैधयं विहाय साम्यमानं चेद् उच्यते एकस्मिन् वाक्ये तहि सा उपमा । उपमैषा सौदामिनीव विद्योतते विपुले वाङमये । काव्यशरीरे समादधाति महती मञ्जलताम् । कालिदासस्य उपमाप्रयोगेऽपूर्व वैशारद्यम् । तस्य उपमासु न केवलं रम्यता, यथार्थता, पूर्णता, विविधता च, अपि तु सर्वत्रैव लिङ्गसाम्यम् औचित्यं च। लिङ्गसाम्यस्य औचित्यस्य च समाश्रयेण काचिदपूर्वा संपद्यते चारुता तस्योपमासु । शतशः सन्ति उपमाप्रयोगस्थलानि तस्य काव्यादिषु । रघुवंशे तूपमाप्रयोगः सर्वातिशायी । दीपशिखा-कालिदासः-उपमाप्रयोगे चातुर्येणैव स 'दीपशिखाकालिदासः' इति प्रसिद्धिमवाप । पतिवरा इन्दुमती दीपशिखेव व्यराजत । सा यं यं नरेन्द्रम् उज्झितवती, स स विवर्णवदनो विषण्णश्चाभवत् संचारिणी दीपशिखेव रात्रौ, यं यं व्यतीयाय पतिवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपालः॥ रघु० ६-६७ उपमा कालिदासस्य-कालिदासस्य कृतिषु शतशः सन्त्युपमा प्रयोगस्थलानि । रघुवंशे तूपमाप्रयोगः सर्वाधिक्यं भजते । कालिदासीया उपमाश्चतुर्धा विभाजयितुं शक्यन्ते-(१) शास्त्रीयाः, (२) मूर्तस्यामूर्ततत्त्वेन साम्यम्, ( ३ ) प्रकृति-संबद्धाः, ( ४ ) विविधविषयसंबद्धाः । वर्गीकरणस्यास्यानेके उपभेदाः। ते स्थानाभावादत्र नोपस्थाप्यन्ते । (१) शास्त्रीया उपमाः-शास्त्रीया उपमास्तावत् पूर्व प्रस्तूयन्ते । शास्त्रीया उपमा अनेकविधा:-वेद-दर्शन-यज्ञ-विद्या-व्याकरण-राजनीतिज्योतिषादि-विषयभेदेन । ( क ) वेदविषयकाः, यथा१. विस्तृत विवेचनार्थं द्रष्टव्यम्-लेखककृता-प्रौढ-रचनानुवादकौमुदी, पृष्ठ ३१३-३१६
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy