________________
कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् अस्पृष्टदोषा नलिनीव हृष्टा, हारावलीव प्रथिता गुणौघैः। प्रियाङ्कपालीव प्रकामहृद्या, न कालिदासादपरस्य वाणी ॥ श्रीकृष्णः तत्रापि च चतुर्थोऽङ्कः-शाकुन्तलेऽपि चतुर्थोऽङ्कः सर्वोत्कृष्टत्वेन परिगण्यते । यद्यप्यकेष्वन्येषु भावमाधुर्य नाट्यकौशलं च परिलक्ष्यते, तथापि । चतुर्थेऽके यथा सौष्ठवेन हृदयावर्जकत्वेन करुणरसनिष्यन्दः, मनोभावाभिव्यक्तिप्रवणेन सरसेन भावोद्वेगेन यथा सरसत्वम्, रसानुगुणभाषाश्रयेण यथा माधुर्यम्, रचनाकौशलेन काम्यत्वम्, हार्दिकानुभूतिप्रकाशनेन सौन्दर्यम्, अन्तःप्रकृतिबाह्यप्रकृत्योः समन्वयेन रुचिरत्वम्, पतिकुलाभिमुखप्रस्थातुकामायाः पुत्र्या भावविह्वलत्वम्, पुत्रीवियोगजन्यदुःखार्तस्य पितुर्मार्मिकं चित्रणम्, न तथान्यत्र । एते विशेषाः चतुर्थाङ्कस्य सर्वातिशायित्वं प्रतिपादयन्ति ।
तत्र श्लोकचतुष्टयम्-भावगाम्भीर्येण सरसत्वापादनेन मार्मिकानुभूतिचित्रणेन कर्तव्योद्बोधनेन प्रकृतितादात्म्यादिगुणेन च चतुर्थेऽङ्के श्लोकचतुष्टयं माहात्म्यं लभते । ते च सन्ति(१) यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पोड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैनवैः॥
___शा० ४-६ (२) शुश्रूषस्व गुरुन् कुरु प्रियसखोवृत्ति सपत्नीजने
भर्तुविप्रकृतापि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥
शा०४-१८ ( ३ ) पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । ... आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥
शा०४-९ ( ४ ) अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्ति च ताम् । सामान्यप्रतिपत्तिपूर्वकमिदं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः॥
शा०४-१७ एवं विज्ञायते यत् शाकुन्तलं कालिदासस्य सर्वस्वम् ।