SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् अङ्के निधाय करभोर यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ शा० ३-१८ ओजोगुणः-यद्यप्योजोगुणो न शाकुन्तले प्राचुर्येण, तथापि केचन सन्दर्भा ओजोगुणस्याविर्भावकाः । यथा सैन्यसंत्रस्तकरिणो वर्णनम्तीव्राघातप्रतिहततरुस्कन्धलग्नकदन्तः . पादाकृष्ट-व्रततिवलयासङ्गसंजातपाशः। मूर्ती विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः॥ शा० १-३३ वर्णननैपुण्यम्-कालिदासः प्रकृतिवर्णने, मनोभाववर्णने, विविधरसवर्णने चासाधारणं वेशारा प्रकटयति । यथा-अश्वगतिवर्णनम्, त्रस्तमगवर्णनम्, कामपीडित-दुष्यन्त-शकुन्तलयोः कामदशावर्णनम्, पतिकूलं गच्छन्त्याः शकुन्तलायाः कारुण्यपूर्ण वर्णनम्, दुष्यन्तशाङ्गरवयोर्विवादस्य वर्णनम्, शकुन्तलाप्रत्याख्यानविषण्णस्य दुष्यन्तस्य मनोदशावर्णनम्, मारीचाश्रमवर्णनं च तस्य प्रतिभाया नवनवोन्मेषशालित्वं सूचयति । स्वर्गाश्रमवर्णनं यथाप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने । तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी॥ शा०७-१२ कामपीडितायाः शकुन्तलाया वर्णनं यथाक्षामक्षामकपोलमाननमरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डरा। शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ शा० ३-७ नाटकेषु शकुन्तला-'काव्येषु नाटकं रम्यम्' इति विवेचितमन्यत्र । नाटकेष्वपि शाकुन्तलमेव सर्वातिशायि । अत्र कविकुलशिरोमणेः कालिदासस्य प्रतिभायाश्चरमोत्कर्षो लक्ष्यते । नाट्यकलादृष्टया, काव्यसौन्दर्यदृष्ट्या, शैलीदृष्टया, रसपरिपाकदृष्ट्या, मनोभावादिसूक्ष्माध्ययनदृष्ट्या, प्रसादादिगुणदृष्टया, अभिनेयत्वदृष्टया, सहृदयहृदयाह्लादकत्वदृष्टया वा यथाकथमपि निरीक्ष्यते परीक्ष्यते समीक्ष्यते वा, सर्वथैव शाकुन्तलस्य सर्वजनाह्लादकत्वम् अवलोक्यते । अतएवोच्यते श्रीकृष्णेन
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy