________________
कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम्
मारीचाश्रमगतमुनिप्रकाण्डस्य तपस्तपस्यतो वर्णनम् अद्भुतरसावस्था
पकम् । यथा
वल्मीकार्धनिमग्न मूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे असंव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
जीर्णलताप्रतानवलयेनात्यर्थ संपीडितः ।
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
शा० ७-११
काव्य सौन्दर्यम् — काव्यसौन्दर्यदृशा परीक्षितं चेत् शाकुन्तलं सर्वमेव शोभातिशायि । चतुर्थेऽङ्के श्लोकचतुष्टयं तु सर्वमनोभिरामम् । तत्र अन्तः प्रकृतेर्बाह्यप्रकृत्या समन्वयो वयते । पतिवियोगविषण्णा शकुन्तला, चन्द्रवियोगप्रपीडिता कुमुदिनी च नितरां साम्यं धत्त:-- अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टि न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहानि ॥ शा० ४-३ शकुन्तलां प्रेक्ष्य राज्ञो रम्या भावाभिव्यक्तिर्यथाइदं किलाव्याजमनोहरं वस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥
शा० १-१८ मनोभावानां कथमिव मनोवैज्ञानिकं मनोज्ञं रूपमाविष्क्रियते । अन्त:करणवृत्तीनां प्रामाण्यमुपस्थापयता तेन वर्ण्यते—
Comm
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करण प्रवृत्तयः ॥
९.५
शा० १-२२
प्रसादगुणः - कालिदासो वैदर्भी रीतिं वृणुते । अतस्तस्य शैल्यां माधुर्यं लालित्यम् अलंकारसमवेतत्वं प्रसादत्वं समासाल्पत्वं च प्रतिपदं समीक्ष्यते । प्रसादस्य मनोहारिणी भा भासतेऽविच्छेदेन । यथा—
अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥
शा० ३-११
माधुर्यम् — शाकुन्तले माधुर्यस्य मनोज्ञा सुषमाऽपि चित्ताह्लादकत्वेन वरीवर्ति । यथा -
कि शीतलैः क्लमविनोदिभिरार्द्रवातान्
संचारयामि नलिनीदलतालवृन्तैः ।