________________
संस्कृतनिबन्धशतकम् मृदुहृदयः शकुन्तलायां पितृवद्वत्सलश्च, मारीचो वीतरागोऽचिन्त्यशक्तिसंयुक्तश्च, दुर्वासा रोषप्रकृतिः परापकृतिपरश्च ।
रसपरिपाकः-रसनिरूपणेऽपि महती विदग्धताऽवाप्यते । बीभत्सरसं विहाय प्रायः सर्वेऽपि रसा यथायथं विन्यस्ताः । शृङ्गाररसः सर्वातिशायी । शृङ्गारस्य पक्षद्वयं संभोगविप्रलम्भात्मकं साम्येनात्र अवतिष्ठते । शकुन्तलाम् उद्वीक्ष्य नृपोक्तिर्यथा
सरसिजनमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शा० १-२० शकुन्तलागा लावण्यं व्रततिव्याजेनोपस्थाप्यते । यथाअधरः किसलयरागः कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥ शा० १-२१
शकुन्तलायाः सौन्दर्य सर्वपरिभावि। कृतसुकृतपरिपाकेनैव सा सुलभा, अन्यथा तु,दुरासदैव। .
अनाघ्रातं पुष्पं किसलयमलूनं कररहै
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यांनां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ शा० २-१० शकुन्तलायाः शृङ्गारदशां साधु विवृणोति
अभिमुखे मयि संहृतमीक्षितं, हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरतस्तया, न विवृतो मदनो न च संवृतः॥
शा० २-११ शकन्तलायाः प्रत्याख्याने राज्ञोविरहावस्थापि साधूपस्थाप्यतेप्रत्यादिष्टविशेषमण्डनविधिमिप्रकोष्ठापितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः। चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः । __संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥
शा०६-६ शकुन्तलाप्रस्थानकाले उपस्थितवियोगविषण्णस्य पशुपक्षि-वनस्पत्यादेरपि समवस्थावर्णनं हृदयद्रावि कारुण्यकारि च
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः। अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः॥ शा० ४-१२