________________
२८. कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् ।
(नाटकेषु शकुन्तला )१ | कालिदासस्य कृतयः-महाकवेः कालिदासस्य सप्तैव कृतयः प्राधान्येन स्वीक्रियन्ते । ( क ) नाट्यग्रन्था:-१. अभिज्ञानशाकुन्तलम्, २. विक्रमोर्वशीयम्, ३. मालविकाग्निमित्रम् । (ख ) काव्यद्वयम्-४. रघुवंशम्, ५. कुमारसंभवम् । ( ग ) गीतिकाव्यद्वयम्-६. मेघदूतम्, ७. ऋतुसंहारम् ।
शाकुन्तलस्य महत्त्वम्-पूर्वोक्तासु कृतिषु शाकुन्तलमेव कवेः प्रतिभायाः परिपाकेन, रचनाकौशलेन, भावसौष्ठवेन, भाषामाधुर्येण, सरसाभिव्यक्त्या, सालंकृतपदावल्या, प्रकृतिचित्रणपाटवेन, रसपरिपाकेन, नीरसकथानके सरसतासंपादनेन, मूलकथापरिवर्तने वैशारद्येन, करुणादिरससंचारेण च सर्वातिशायीति तदेव कालिदासस्य सर्वस्वत्वेनो ष्यते । अतएव निगद्यते केनापि
काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तला।
तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥
कालिदासस्य नाट्यकलाकौशलम्-तस्य नाट्यकलाकौशले प्राधान्येनैते विशेषाः संलक्ष्यन्ते-घटनासंयोजने सौष्ठवम्, वर्णनानां सार्थकता, स्वाभाविकता ध्वन्यात्मकता च, चरित्रचित्रणे वैयक्तिकत्वम्, रसानुगुणकवित्वाधानम्, रसपरिपाकश्चेति । घटनासयोजने सौष्ठवं यथा-द्वितीयेऽङके आश्रमं प्रवेष्टुकामे सति दुष्यन्ते ऋषिकुमारद्वयस्य नपाह्वानाथं प्रवेशः । पञ्चमे हंसपदिकागोतम्, षष्ठेऽङ्गलोयकोपलब्धिः, सप्तमे पुत्रदर्शनं शकुन्तलावाप्तिश्च । वर्णनानां स्वाभाविकत्वं यथा-प्रथमेऽके मृगप्लुतिवर्णनम्, द्वितीये भूभृद्विदूषकसंलापः, चतुर्थे शकुन्तला-विप्रयोग-वर्णनम्, पञ्चमे शकुन्तला-प्रत्याख्यानम्, षष्ठे शकुन्तलावियोगविषण्णस्य राज्ञो मनोवैज्ञानिकं वर्णनम्, सप्तमेऽपत्यक्रोडावर्णनं च । वर्णनानां ध्वन्यात्मकता यथा-'दिवसाः परिणामरमणीयाः' (शा० १-३) इत्यनेन नाटकस्य सुखावसायित्वं सूच्यते। सूत्रधारकथनम्–'अस्मिन् क्षणे विस्मृतं खलु मया' ( अंक १ ) इत्यनेन नाटके विस्मरणस्य महत्त्वं द्योत्यते । जीवने सुखदुःखयोः क्रमानुपातित्वं सूर्यचन्द्रमसोः उदयास्तमयेन साधु संपोष्यतेयात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाम्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ (४-२)
चरित्रचित्रणे वैयक्तिकता यथा-ऋषित्रये कण्वः साधुप्रकृतिर्दान्तो १. विस्तृतविबरणार्थ लेखकसंपादित-शाकुन्तलस्य भूमिकाभागो द्रष्टव्यः । पृ० ५४-१००