________________
संस्कृतनिबन्धशतकम्
व्यञ्जनाशक्तिद्विविधा — अभिधामूला, लक्षणामूला च । यत्रानेकार्थः शब्दः संयोगवियोगादिकारणेन एकत्रार्थे नियन्त्रिते सति अन्यमर्थं बोधयति सा अभिधामूला व्यञ्जना । यथा—
९२
भद्रात्मनो दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ अत्र श्लेषाश्रयेण राज- स्तुतिरूपार्थे बोधिते हस्तिरूपोऽन्योऽर्थोऽपि व्यञ्जनया बोध्यते ।
यत्र लक्ष्यार्थंमादाय तदन्यत् किञ्चिद् बोध्यते सा लक्षणामूला व्यञ्जना । यथा गङ्गायां घोषः, इत्यत्र लक्ष्यार्थातिरिक्तः शीतत्वपावनत्वातिशयादिरर्थो बोध्यते ।
व्यञ्जना द्विविधा – शाब्दी आर्थी च । यत्र शब्दमूला सा शाब्दी, यत्रार्थ - मूला सा आर्थी । शाब्द्या व्यञ्जनाया उदाहरणम् – गङ्गायां घोषः । आर्थी च वक्तृबोद्धव्यादीनां वैशिष्टयेन अन्यमर्थं बोधयति । यथा
कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्ज
दूरे पतिः कथय किं करणीयमद्य ॥
अत्र 'दूरे पति : ० ' इत्यादिना प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद् व्यज्यते ।
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दृति बान्धवजनस्थाज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥
इत्यत्र ‘वापीं स्नातुम्०' इत्यादिना तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया व्यज्यते ।
मम्मटो व्यङ्ग्यमूलां व्यञ्जनामपि स्वीकरोति ।
सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते ॥ काव्य० २-७
व्यङ्ग्यमूला व्यञ्जना यथा
पश्य निश्चलनिष्पन्दा बिसिनोपत्रे राजते बलाका । निर्मल मरकतभाजन - परिस्थिता शंखशुक्तिरिव ॥
निर्जनत्वाद् एतद् संकेतस्थानमिति कयाचित् कंचित् प्रति उच्यते । एवं शब्दशक्तिर्विपश्चिद्भिः साधु निरूप्यते ।