SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शब्दशक्तयः अत्र कुन्तादिशब्देन कुन्तादिधारिणः पुरुषा लक्ष्यन्ते । अत्र स्वार्थग्रहणाद् उपादानलक्षणा । कुन्तादिशब्दर्भयजनकत्वादिकं प्रयोजनम्, तेन प्रयोजनवती। यत्र स्वकोयोऽर्थः सर्वथा त्यज्यते, तत्र लक्षणलक्षणा । अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये। उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ सा० द० २-७ इयमेव जहत्स्वार्थाऽप्युच्यते । यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥सा० द० अपकारिणं प्रति उपकारादिप्रतिपादनात् मुख्यार्थबाधः, अपकारातिशयादिरूपो विपरीतोऽर्थोऽत्र गृह्यते । एवं चतुर्विधलक्षणाया अपि द्वौ भेदौ-सारोपा, साध्यवसाना च । यत्र विषयोऽनिगीर्णोऽन्येन सह तादात्म्यं स्थापति, तत्र सारोपा लक्षणा । यत्र च विषयो निगीर्णः तादात्म्यरूपो वा विषयिणा भवति तत्र साध्यवसाना लक्षणा। यथा-गौर्वाहीकः । अत्र वाहीकदेशस्थपुरुषे गोत्वं पशुत्वं मूर्खत्वं वा लक्ष्यते । अत्र पुरुषे गोत्वारोपात् सारोपा लक्षणा। इयमेव रूपकालंकारस्य बीजम् । यत्र विषयो विषयिणा निगीर्यते एकात्मतां वा गच्छति, तत्र साध्यवसाना लक्षणा । यथा--गौरयम्, गौर्जल्पति वा । अत्र गोशब्देन वाहीकदेशस्थः पुरुषो लक्ष्यते । तस्य अनुल्लेखात् साध्यवसाना लक्षणा।। एवम् अष्टभेदाया लक्षणायाः पुनर्ती भेदी-शुद्धा, गौणी च । यत्र सादृश्यभिन्नकारणेन लक्षणा, सा शुद्धा । या च सादृश्यमलाः सा गौणो। यथा-आयुघृतम्, श्वेतो धावति, कर्मणि कुशल:, कुन्ताः प्रविशन्ति, इत्यत्र सादृश्येतरसबन्धमूला लक्षणा, अतः शुद्धा । यत्र च सादृश्यमूला सा गौणी। यथा-पुरुषः सिंहः, गौर्वाहोकः, गौर्जल्पति, तैलानि हेमन्ते सुखानि, राजा गौडेन्द्रं कण्टकं शोधयति, अत्र सादृश्यमूलत्वाद् गौणी लक्षणा । एतासां विस्तरेण विश्वनाथेन. लक्षणाया अशीतिभेदाः प्रतिपादिता: तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः। पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ॥ सा० द० २-११, १२ व्यञ्जना-अभिधालक्षणाशक्त्योः कार्येऽवसिते, यया अन्योऽर्थो बोध्यते सा वृत्तिय॑ञ्जना नाम । व्यञ्जना निगूढमर्थं बोधयति । यथा-गङ्गायां घोषः, इत्यत्र लक्षणया गङ्गातीरबोधः, शीतत्वपावनत्वादिरूपोऽर्थो नाभिधया न च लक्षणयाऽवगन्तुं पार्यते । तं गूढमथं व्यञ्जनाशक्तिरेव बोधयति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy