SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः । सा० द० २-२ शब्दार्थयोः स्वरूपं विवेचयता मम्मटेन प्रतिपाद्यते यत् शब्दः त्रिविध:स्याद् वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा॥ वाच्यादयस्तदर्थाः स्युः । काव्य० २-६ शब्दस्त्रिधा–वाचको लक्षको व्यञ्जकश्चेति । तेषामर्थोऽपि त्रिविधःवाच्यो लक्ष्यो व्यङ्ग्यश्चेति । शब्दस्य तिस्रः शक्तयः-अभिधा, लक्षणा, व्यञ्जना चेति । वाचकेन शब्देन वाच्योऽर्थोऽभिधाशक्त्या बोध्यते । लक्षकेन शब्देन लक्ष्योऽर्थो लक्षणाशक्त्या बोध्यते । व्यञ्जकेन शब्देन व्यङ्ग्योऽर्थो व्यञ्जनाशक्त्या व्यज्यते । एवं काव्यशास्त्रज्ञैः तिस्रः शक्तयो मन्यन्ते। वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः। . व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः॥ सा०द० २-३ अभिधा-अभिधाशक्तिः साक्षात् संकेतितमर्थं बोधयति । स च संकेतः जातो गुणे क्रियायां यदृच्छाशब्देषु च गृह्यते । उक्तं च महाभाष्ये 'चतुष्टयी शब्दानां प्रवृत्तिः, जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्चेति ।' महाभाष्य आ० २ ___ अभिधाशक्तिरपि त्रिविधा-रूढ़िः, यौगिको योगरूढिश्च । केचन शब्दा रूढाः, केचन यौगिकाः, केचन च योगरूढाः । 'शक्तिस्त्रिधा-रूढिर्योगो योगरूढिश्च ।' मंजूषा पृ० १०६ लक्षणा–लक्षणाशक्तेर्लक्षणमुच्यते विश्वनाथेनमुख्यार्थबाधे तद्युक्तो ययाऽन्योऽर्थः प्रतीयते। रूढः प्रयोजनाद् वासौ लक्षणा शक्तिरपिता ॥ सा० द० २-५ । लक्षणायां तत्त्वत्रयम् आवश्यकम्-(१) मुख्यार्थस्य बाधः स्यात्, (२) मुख्यार्थसंबद्धोऽर्थः स्वीक्रियेत, (३) रूढिः प्रयोजनविशेषो वा तत्र कारणं स्यात् । यथा-कर्मणि कुशलः, कलिङ्गः साहसिको वा रूढेरुदाहरणम् । अत्र कुशलशब्दो दक्षे, कलिङ्गशब्दश्च कलिङ्गदेशजे रूढः । गङ्गायां घोषः इत्यत्र प्रयोजनवती लक्षणा । अत्र गङ्गाशब्दः स्वार्थं जलप्रवाहरूपम् अथं परित्यज्य गङ्गातीरं बोधयति । सा च लक्षणा द्विविधा-उपादानलक्षणा, लक्षण-लक्षणा च । यत्र स्वार्थसिद्धये पराक्षेपो भवति, आत्मनश्चापि उपादानं भवति, तत्रोपादानलक्षणा । 'इयमेव 'अजहत्स्वार्था' इत्यपि उच्यते । रूढी उपादानलक्षणा यथा-श्वेतो धावति । अत्र श्वेतशब्दः श्वेतगुणत्वविशिष्टम् अश्वं बोधयति । अत्र रूढिः कारणम् । प्रयोजनवती उपादानलक्षणा यथा—कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy