SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २७. शब्दशक्तयः अस्ति शब्देषु शक्तिः । तया शक्त्यैव शब्दः स्वाभीष्टमर्थं द्योतयति । यदि शब्देषु शक्तिर्न स्यात् तहि कृतेऽपि घोरे प्रयत्नेऽर्थबोधो न स्यात् । अतएव भर्तृहरिणा प्रोच्यते विषयत्वमनापन्नैः शब्दै र्थः प्रकाश्यते। न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ वाक्य०१-५६ विषयत्वं प्राप्ता एव शब्दा अर्थबोधनक्षमाः। एतदेव महाभाष्ये निर्दिश्यते शब्द उपलब्धोऽथं प्रत्याययति न सत्तामात्रेण । महा० १-१-६८ शब्दशक्तिप्रकाशिकायां जगदीशः प्रतिपादयतिवाक्यभावमनाप्तस्य सार्थकस्यावबोधतः। सम्पद्यते शाब्दबोधो न तन्मात्रस्य बोधतः॥ शब्द० श्लोक १२ का नाम शक्तिरिति जिज्ञासायां नागेशेनोच्यते शब्दार्थयोस्तादात्म्यमेव शक्तिः । उद्योत, महा० आ० १ वाक्यपदीयेऽर्थाभिव्यक्ती प्राणस्य बुद्धश्च महत्त्वं प्रतिपाद्यते यद् द्वयोः । साहाय्येन शब्दशक्तिविवर्तते । सा च भेदं प्राप्नोति तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता। विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ॥ वाक्य० १-११८ शब्दः प्राणाधिष्ठानो बुद्धयधिष्ठानश्च । द्वाभ्यां प्राणबुद्धिशक्तिभ्याम् अभिव्यक्तोऽथं प्रत्याययति । हरिवृषभ, वाक्य० १-११८ __गदाधारभट्टो व्युत्पत्तिवादे गङ्गेशश्च तत्त्वचिन्तामणी शब्दखण्डे शक्ति विस्तरेण विवेचयतः । वृत्तेः शक्तेर्वा लक्षणं तत्र क्रियते–'इदं पदमिममर्थ बोधयेत्', 'अस्मात् शब्दादयमर्थो बोद्धव्यः' एवं प्रकारः संकेतः शक्तिः । नागेशः पदपदार्थयोः संबन्धविशेषं शक्ति मनुते । सा च वाच्य-वाचकरूपा शक्तिः । पद-पदार्थयोरभेदज्ञानेन शक्तिग्रहः। पदगतशक्ति संकेतो बोधयति । अतः संकेतः शक्तिर्मन्यते । शक्तिरेवार्थबोधनसाधिका। शक्तिग्रहश्च वाक्येन भवति । वाक्यलक्षणं विश्वनाथेनोच्यते वाक्यं स्याद् योग्यताकांक्षासत्तियुक्तः पदोच्चयः । सा० द० २-१ (१) योग्यता, परस्परसंबन्धक्षमतारूपा, (२) आकांक्षा, श्रोतुजिज्ञासारूपा, (३) आत्तिः बुद्धेरविच्छेदः, एतद्गुणत्रययुक्तः पदसमूहो वाक्यम् । एवं योग्यताकांक्षासत्तियुक्तानां पदानां समूहो वाक्यम् । पदं च तेन लक्ष्यते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy