SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ उत्तर० ४-२५ करुणरसमूलस्य वीररसस्य वर्णनं यथाज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र मुद्भरिघोर-घनघर्घर-घोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्तयन्त्र जृम्भा-विडम्बि विकटोदरमस्तु चापम् ॥ उत्तर०४-२९ . चन्द्रकेतु-लवयोर्युद्धवर्णने करुणरसमूलको वीररसो वर्ण्यते । एवं सिध्यति यत् काव्यस्य मूलं करुणरसे एव निबद्धम् । कारुण्याप्लुतचेतसः सरसभावावगाहित्वात् कल्पनाप्रवणत्वाद् अनुभूतिसंजुष्टत्वाच्च सहृदयत्वं सहानुभूतिसमन्वितत्वं च । यत्र सहृदयत्वं सहानुभूतिः कल्पना मार्मिकानुभूतिश्च तत्र काव्यत्वम् । तथाविधैव कृतिः सहृदयाह्लादकारिणी विद्वज्जनमनोज्ञा लोकमनस्तोषिणी च । एतद् विचार्यव भवभूतिना प्रोच्यते एको रसः करुण एव।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy