________________
एको रसः करुण एव
आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥ काव्य० ८-६८, ६९
आंग्लभाषायाः कविवरेण शैली ( P. B. Shelley ) महाभागेनापि एतदेव निगद्यते
Our sweetest songs are those That tell of saddest thought'. ( Skylark)
उत्तररामचरिते करुणरसः-महाकविना भवभूतिना उत्तररामचरिते स्वीयः सिद्धान्तोऽयं करुणरसमूलकानां विविधरसानां निदर्शनैः संपोष्यते । ' सीतावियोगविषण्णस्य रामभद्रस्य करुणरसमूलकं विप्रलम्भशृङ्गारं वर्णयति
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि। जनस्थाने शून्ये विकलकरणैरार्यचरितै
रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ उत्तर० १-२८ सीतावियोग-सन्तप्तो रामः करुणरसस्वरूप एवाभूत्
अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ उत्तर० ३-१ .
सीताया अपि तादृश्येवावस्था। सापि करुणस्य मूर्तिः, शरीरिणी विरहव्यथेव च प्रतिभाति
करुणस्य मूतिरथवा शरीरिणी
विरहव्यथेव वनमेति जानको ॥ उत्तर० ३-४ करुणरसमूलं वात्सल्यं यथा रामकृत-लवालिङ्गन-वर्णनेपरिणतकठोर-पुष्करगर्भच्छदपीनमसृण-सुकुमारः।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥ उत्तर० ६-१३
करुणमूलको रौद्ररसो यथा रामकृतसीतापरित्यागसन्तप्तस्य जनकस्योक्ती
एतद् वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ॥ उत्तर० ४-२५
तत्रैव करुणमूलकस्य शान्तरसस्य च वर्णनम् । यथा१. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखकसंपादित-'उत्तररामचरितस्य' भूमिकाभागः,
पृ० ९८-१०१।