SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् भवभतेरभिमतं सर्वेषां रसानां करुणमूलत्वम् । करुणरसादेव सर्वेषां रसानाम् आविर्भावः । यथा सलिलमेकमेव सद् भ्रम्यादिरूपेण नानाभेदान् आपद्यते, तथैव करुणो रसोऽपि वैविध्यं प्रतिपद्यते । स एव क्वचित् करुणरसः, क्वचिद् विप्रलम्भशृङ्गारः, क्वचिच्च रसान्तरम् । ___ करुणरसात् काव्योत्पत्तिः--करुणरसे चित्तद्रवीभावः । स एव काव्यस्य मूलम् । नान्तरेण चित्तद्रवत्वं तात्त्विको सात्त्विकी अनुभूतिः । नैसर्गिक चित्तद्रवत्वमेव करुणभावावेगे काव्यम् आविर्भावयति । अतएव काव्यस्योत्पत्तिरपि करुणमूलैव उद्गीर्यते । क्रौञ्चद्वन्द्ववियोगजन्यं कारुण्यम् आश्रित्यैव महाकवेर्वाल्मीके: प्रथमा काव्याभिव्यक्ति: मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ रामा० १-२-१५ एतदेवाश्रित्य ध्वन्यालोककारेण आनन्दवर्धनेनोच्यतेकाव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥ध्वन्या० १-५ आनन्दवर्धनेन रामायणस्य करुणरसान्वितत्वं करुणरसप्राधान्यं च स्फूटमुद्घोष्यते । वाल्मीकिना आद्यन्तं करुणरसस्य निर्वाहोऽपि व्यधायि । 'रामायणे हि करुणो रसः स्वयमादिकविना सूत्रितः 'शोकः श्लोकत्वमागतः' इत्येवंवादिना । नियंढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता।' ध्वन्या० ५-५ टीका हिन्दीभाषायामपि सुमित्रानन्दनपन्तमहाभागेनैष एवाभिप्रायो विन्यस्त:वियोगी होगा पहला कवि, आह से उपजा होगा गान । उमड़कर आँखों से चुपचाप, बही होगी कविता अनजान ॥ रसानाम् उत्कर्षापकर्षत्वं विवेचिते सति स्फुटमेतद् अवगम्यते यत् करुणरसो यथा प्रभविष्णुः हृदयद्रावी मार्मिकश्च, न तथा रसान्तरम् । करुणे स्वानुभूतिः स्वाभाविक्या रीत्या प्रकाश्यते । यथा नैसर्गिकः प्रवाहः, सरसत्वं मधुरत्वं चेतः-प्रसादजनकत्वं करुणरसे उपलभ्यते, न तथाऽन्यत्र । संभोगशृङ्गारवर्णने न तथा वैशिष्ट्यं माधुर्यं च, यथा विप्रलम्भे । अतएव शृङ्गारेऽपि विप्रलम्भस्य महत्त्वम् उदीर्यते ___न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते । माधुर्यं करुणरसे विप्रलम्भशृङ्गारे शान्तरसे च वैशिष्ट्यं भजते । अत. एवोच्यते मम्मटेन नविन
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy