________________
२६. एको रसः करुण एव कारुण्यं जगतो मूलं काव्यमूलं निसर्गतः। करुणार्द्रस्य स्वान्तस्य रससिद्धिरनुत्तमा ॥ ( कपिलस्य )
करुणस्य स्वरूपम्-किं नाम जीवितम् ? जीवितं हि पञ्चषदिनानां सुखानुभूतिः, भूयसां च वासराणां दुःखानुभूतिः । जीवने सुखदुःखयोः, हर्षशोकयोः, स्नेहरोषयोः, मित्रत्वशत्रुत्वयोः, रागविरागयोः, संभोगविप्रलम्भयोः, जनिनाशयोः समन्वयो दरीदृश्यते । नहि सुख-व्यतिरिक्तं दुःखम्, सुखं च दुःखव्यतिरिक्तम् । चक्रवद् द्वयोः परिवर्तनवृत्तित्वम् । 'चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च।' जगतः स्वरूपं विविच्यते चेत् तर्हि तस्य विनश्वरत्वं क्षणभङ्गरत्वं शून्यत्वम् असारत्वं च प्रतिपदं प्रेक्ष्यते । जीवनस्य क्षणभङ्गुरत्वं निरीक्ष्यैव शोको ग्लानिर्नैराश्यम् औदासीन्यं च प्रवर्तन्ते । जीवने सुखदुःखयोः, हर्षशोकयोश्च उच्चावचत्वं न्यूनत्वाधिक्यं च परीक्ष्यते चेत् तर्हि दुःखस्य शोकस्य च भूयस्त्वं परिलक्ष्यते । जगतो नश्वरतां प्रेक्ष्य तत्त्वज्ञैः तदसारताप्रतिपादनात् निवृत्तिमार्गः प्रस्तावितः । जीवनं शोकबहुलम्, इष्टनाश-अनिष्टप्राप्त्यादिप्रसंगात् ।
करुणस्य वैविध्यम्-करुणरसे शोक एव स्थायिभावत्वेनाश्रीयते । करुणो हि रसः चित्तद्रवताम् आपाद्य लोकहृदयेन साधारणीकरणं विदधाति । करुणरस एव क्वचिद् दयाभावेन, क्वचित् सहानुभूतिरूपेण, क्वचित् समवेदनातत्त्वेन समन्वितं सद् नानारूपत्वं वैविध्यं चाप्नोति । स एव दम्पत्योरेकतरस्य निधने करुणरसत्वं प्राप्नोति, दम्पत्योरेकतरस्य वियोगमात्रे विप्रलम्भशृङ्गारत्वम् आपद्यते। मातापुत्रयोः, मातापुत्र्योः, भ्रातृदुहित्रोः, स्वस्रोः, सख्योः, इष्टयोर्वा वियोगे नानाभावभेदेन वैविध्यम् ऋच्छन् नानारसत्वम् आसादयति । दुःखमूलके सुखे, विप्रलम्भमूलके संभोगे, शोकमूलके हर्षे, परदुःखकातरताजन्य-सहानुभूती, इष्टनाशान्तरजातसन्ततौ वात्सल्ये, विनष्टेष्टजनापत्ये वीरत्वे, वियोगदुःखान्तरसंजातसंयोगे संभोगशृंङ्गारत्वे च कारुण्यस्यैव प्राधान्यम् । करुणमूलत्वाच्चैतेषां भावानां करुणरसजन्यत्वं प्रतिपाद्यते । एवमेव सर्वेऽपि रसाः करुणरसे निबद्धाः। करुणमूलत्वम् उद्वीक्ष्यैव सर्वेषां रसानां भवभूतिना उद्घोष्यते यत्
एको, रसः करुण एव निमित्तभेदाद्
भिन्नः पृथक् पृथगिव श्रयते विवर्तान् । आवर्त-बुबुद-तरङ्गमयान् विकारान्
अम्भो यथा सलिलमेव हि तत् समस्तम् ॥ उत्तर० ३-४७ .