SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् - शिवम् — 'शिवम्' इत्यस्य किं स्वरूपम् ? ' शिवम् प्राधान्येन धर्मशास्त्रादीनां सामाजिकशास्त्राणां च विषयः । परहितनिरतत्वं परार्थसाधनत्वं लोककल्याणजनकत्वं च, न केवलं व्यष्टेः अपि तु समष्टेरपि, शिवशब्देनाभीष्यते । शिवत्वेन जगद्धितकराः, आचारादिपरिष्कारकाः, नैतिकभावसंपोषकाश्च भावा गृह्यन्ते । काव्ये तथाविधभावानाम् उपादेयत्वमनिवार्यम् । अर्थाद् एतदपि आपद्यते यत् लोकस्य अहितकराः, आचारविचारसंदूषकाश्च भावाः काव्ये परिया: परिहार्याश्च । शिवत्वम् आदर्शान्वयि यथार्थावगाहि नीतितत्त्वप्रवणं च । यतो हि यत्र यत्र शिवत्वं तत्र तत्र आदर्शान्वयित्वम् । कविः आदर्शान्वयि शिवत्वेऽपि सत्यस्य सौन्दर्यस्य च समाहारम् अपेक्षते । कविः सौन्दर्यप्रवणत्वात् कुरूपेऽपि सुरूपत्वम्, अशिवेऽपि शिवत्वम्, अमङ्गलेऽपि मङ्गलत्वम्, नीरसेऽपि सरसत्वं संचारयति । ८४ सुन्दरम् — किं नाम सुन्दरं सौन्दर्यं वा ? बाह्यं सौन्दर्यं लोचन युगलेन आभ्यन्तरं च सौन्दर्यं हृदयेन गृह्यते । काव्ये 'सुन्दरम्' इत्यनेन रम्यत्वं मनोज्ञत्वं हृद्यत्वं चाभीष्यते । किं नाम मधुरत्वं रम्यत्वं वा ? इति जिज्ञासासां माघेन निरूप्यते क्षणे क्षणे यन्त्रवतामुपैति, तदेव रूपं रमणीयतायाः । शिशु० ४-१७ एतदेव च काव्ये लावण्य-शब्देन प्रतिपाद्यते । लावण्यस्य लक्षणम् — मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । संलक्ष्यते यदङ्गेषु तल्लावण्यमिहोच्यते ॥ तथाविधं लावण्यं रम्यत्वं च काव्येऽपि अपेक्ष्यते । काव्यं हि रसात्मकम् । रसात्मकत्वादत्र त्रयाणामपि तत्त्वनां समाहारोऽभीष्टः । सत्यं शिवात्मकं स्यात्, शिवं च सौन्दर्यसंवीतं स्यात् । एवं तत्त्वत्रयस्यैतस्य समवायेन काव्यत्वं संपाद्यते । गुणत्रयसमन्वितं च काव्यं निर्दुष्टं सत् लोकाराधनक्षमम् । गुणत्रयसंपुष्टश्च कविः रससिद्धोऽजरोमरश्च संजायते । उक्तं च जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy