________________
सत्यं शिवं सुन्दरम्
उत्तररामचरिते भवभूतिः सूनृतां वाचं स्तोतितमाम् -
कामं दुग्धे विप्रकर्षत्यलक्ष्मी कोति सूते दुर्हृदो निष्प्रलाति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥
८३
उत्तर० ५-३०
'प्रियं च सत्यं च वचो हि सूनृतम्' इति सूनृतशब्दे सत्यस्य सुन्दरस्य च ग्रहणम् । ‘मातरं मङ्गलानाम्' इत्यनेन शिवस्य च ग्रहणम् । एवं ' सूनृत ' - शब्दे 'सत्यं शिवं सुन्दरम्' इत्यस्य मूलं प्राप्यते । बृहदारण्यकोपनिषदि सैषा वाग् ब्रह्मरूपेण स्तूयते
वाग्वै सम्राट् परमं ब्रह्म । बृहदा० ४-१-२
सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म । बृहदा० ५-४-१
माण्डूक्योपनिषदि ब्रह्म 'शान्तं शिवम् अद्वैतम् ( मा० ७ ) इत्येवंरूपेण प्रतिपाद्यते । ब्रह्म शिवं गृह्यते । काव्यं च ब्रह्म-प्राप्तिसाधनत्वाद् ब्रह्मगतगुणानां ग्राहकं स्यात् । अतः काव्ये शिवत्वस्य संकलनम् अनिवार्यम् । ब्रह्मणः 'सच्चिदानन्द'-नामन्यपि सत्यस्य शिवत्वरूपज्ञानस्य आनन्दस्य च ग्रहणं क्रियते ।
केचन सरस्वत्याः स्वरूपे ज्ञानप्रतीकेन पुस्तकेन सत्यस्य, हंसेन नीरक्षीर-विवेकरूप-शिवत्वस्य, वीणया कमलेन च सौन्दर्यस्योपादानं मन्वते । केचनाचार्याः सत्ये शिवस्य, शिवे सौन्दर्यस्य च दर्शनं विदधति ।
साहित्ये 'सत्यं शिवं सुन्दरम्' त्रयमेतत् समन्वितम् अपेक्ष्यते । एतेषाम् एकतमस्याप्यभावे काव्यत्वहानि: । 'सत्यं शिवं सुन्दरम्' इत्यत्र उत्तरोत्तरम् उत्कर्षोऽङ्गीक्रियते । काव्ये सत्यात् शिवस्य, शिवाच्च सौन्दर्यस्य महत्त्वम् अभीष्टम् ।
सत्यम् - किं नाम सत्यम् ? काव्ये सत्यशब्देन न दार्शनिकं वैज्ञानिकं वा सत्यम् अपेक्ष्यते। वैज्ञानिकं सत्यं विश्लेषणप्रधानं सौन्दर्यानुभूति - विरहितं च । दार्शनिकं सत्यं तु केवलं बुद्धिं प्रभावयति, न तु तद् हृदयस्पर्श मन:प्रसादजनयितृ भावोद्बोधनक्षमं च । काव्ये सत्यशब्देन स्वानुभूतिजन्यं कल्पनालंकृतं हृदयस्पर्शि च सत्यं गृह्यते । तदेतत् सत्यं हृदयम् आह्लादयति, बुद्धिं विकासयति, चेतः प्रसादयति, अनुभूति विशदयति, सद्भावान् विस्तारयति, प्रसुप्ताः चित्तवृत्तीरुद्बोध्य विकासाभिमुखं विधत्ते । कविसंमतं सत्यं रम्यतरं नैसर्गिकम् अनुभूतिप्रधानं च भवति । कविसंमतं सत्यं न सौन्दर्य - व्यक्तिरिक्तम्, तत्रानुभूतेः कल्पनायाश्चाश्रयणेन सौन्दर्यसंजुष्टं शिवात्मकं च सत्यम् अभीष्यते । कल्पनामूलके सत्येऽपि अनुभूतेः प्राधान्यात् न सत्यत्वं भिद्यते ।
I