SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २५. सत्यं शिवं सुन्दरम् सत्यं तत्त्वार्थसंपुष्टं शिवं लोकहितार्थकृत् । सुन्दरं हृदयनाहि काव्यं काव्यजुषां प्रियम् ॥ ( कपिलस्य ) वाक्यस्य मूलं प्रचलनं च–'सत्यं शिवं सुन्दरम्' इत्येतद् वाक्यं यद्यपि न वेदादिमूलकम्, तथापि भारतीयसंस्कृतेः आनुरूप्यं दधद् विदेशीयमपि वाक्यं स्वीयमिव स्वीक्रियते । एतस्य वाक्यस्य मूलं गवेषितं चेत् तहि एतस्य मूलं युनानदेशजस्य प्रसिद्धदार्शनिकस्य विख्याततत्त्वज्ञस्य प्लेटोमहाभागस्य काव्यादिविषये निदिते वाक्य एव समुपलभ्यते । 'The True, the Good, the Beautiful.' ( Plato ) अत्र तेन काव्यादिषु सत्यस्य शिवस्य सौन्दर्यस्य च समाहारो विहितः । 'सत्यं शिवं सुन्दरम्' इत्येतद् वाक्यं सर्वप्रथम भारतवर्षे ब्रह्मसमाजसंस्थापकेन श्रीराजाराममोहनरायमहाभागेन स्वकीये ब्रह्मसमाजे प्रवर्तितम् । ततश्च बङ्गदेशीयवाङ्मयमाध्यमेन हिन्दी-साहित्येऽपि प्रचलितम् ।। एतद्भावस्य भारतीयत्वम्-वाक्यमेतद् यद्यपि न भारतीयं तथापि काव्यादीनाम् उद्देश्यत्वेन ते भावा यत्र तत्र स्वीक्रियन्ते प्रथन्ते च । 'रसो वै सः। रसं ह्येवायं लब्ध्वानन्दी भवति' (तै० उप० २-७) इति तैत्तिरीयोपनिषदि प्रोच्यते । यत्र यत्र रसत्वं तत्र तत्र माधुयं सौन्दर्य चाभीष्यते । मम्मटेन काव्यप्रकाशे काव्यप्रयोजनत्वेनाभिधीयते काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ काव्य० १-२ इत्यत्र 'शिवतरक्षतये' इत्यनेन शिवस्य, 'सद्यः परनिर्वृतये' 'कान्ता संमिततयोपदेशयुजे' इति पदद्वयेन माधुर्यस्य सौन्दर्यस्य च समन्वयो लक्ष्यते । 'हितं मनोहारि च दुर्लभं वचः' ( किराता० १-४ ) इत्यत्र भारविकविना शिवस्य सुन्दरस्य च सामञ्जस्यं समर्थ्यते । 'साहित्य-संगीत-कलाविहीनः साक्षात् पशुः पुच्छाविषाणहीनः' इत्यत्रापि साहित्येन सत्यस्य, संगीतेन माधुर्यस्य शिवस्य च, कलाशब्देन सौन्दर्यस्य च समन्वयोऽभीष्यते । साहित्य-शब्द-व्युत्पत्तौ 'हितेन सहितं सहितम्, सहितस्य भावः साहित्यम्' हितशब्देन शिवस्यापि संकलनं साहित्येऽभिधीयते । काव्यस्य रसानुभतेर्ब्रह्मानन्द-सहोदरत्वेन माधुर्यसमन्वितत्वम् आनन्दात्मकत्वं च स्वोक्रियते । 'सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्' इत्यत्र सत्यस्य शिवस्य च समाहारोऽपेक्ष्यते।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy