________________
काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते
८१
(१) सादृश्यमूलका अलंकाराः-उपमा, उपमेयोपमा, अनन्वयादयः सादृश्यमूलकाः चतुर्धा विभज्यन्ते-भेदाभेदप्रधानाः, आरोपमूलकाभेदप्रधानाः, अध्यवसायमूलकाभेदप्रधानाः, गम्यौपम्यमूलकाश्च ।
(२) विरोधमूलका वैषम्यमूलका वा अलंकारा:-असंगतिः, विषमः, विरोधाभासः, विशेषोक्तिः, समादयः ।
(३) क्रममूलकाः शृंखलाबन्धमूलका वा अलंकाराः-कारणमाला, एकावली, मालादीपकम्, सारादयः ।
( ४ ) न्यायमूलका अलंकाराः-एते त्रिधा विभज्यन्ते–तर्कन्यायमूलकाः, वाक्यन्यायमूलकाः, लोकन्यायमूलकाश्च । काव्यलिङ्गम्, अनुमानम्, यथासंख्यम्, प्रतीपम्, तद्गुणादयः ।
(५) कारण-कार्य-संबन्धमूलका अलंकाराः-विभावना, हेतूत्प्रेक्षा, अतिशयोक्त्यादयः ।
(६ ) निषेधमूलकाः-अपह नुतिः, व्यतिरेकः, विनोक्त्यादयः ।
(७) गूढार्थप्रतीतिमूलकाः-पर्यायोक्तिः, समासोक्तिः, व्याजस्तुतिः, व्याजनिन्दा, मुद्रादयः ।
शब्दार्थदृष्ट्या अलंकारास्त्रिधा विभज्यन्ते-शब्दालंकाराः, अर्थालंकाराः, उभयालंकाराश्च । तत्र शब्दालंकारा अनुप्रासादयः । अर्थालंकारा उपमारूपकोत्प्रेक्षादयः । उभयालंकारे श्लेषो गृह्यते, शब्दालंकारत्वाद् अर्थालंकारत्वाच्च।
__ शब्दालंकारार्थालंकारयोर्भेदः तावनिरूप्यते यद्-शब्दपरिवर्तनासहत्वे शब्दालंकारः, शब्दपरिवर्तनसहत्वे चार्थालंकारः । शब्दालंकारे शब्दपरिवर्तनेनालंकारक्षतिः, अर्थालंकारे तु शब्दपरिवर्त्तने सत्यपि नालंकारहानिः ।
___एवं विज्ञायते यत् काव्येऽलंकाराणां तदेव महत्त्व यज्जीवने वस्त्रादीनाम् आभूषणानां च । यथा चोक्तं केनापि
वासः प्रधानं खलु योग्यताया वासोविहीनं विजहाति लक्ष्मीः। पीताम्बरं वीक्ष्य ददौ तनूजा, दिगम्बरं वीक्ष्य विषं समुद्रः॥
सालंकृतस्य निरलंकृतस्य च काव्यस्य तथाविधम् एव वैषम्यम् । गुणालंकृतिसम्पन्नैव कृतिः सुधीभिरास्वाद्यते, विबुधजनवन्द्यतां चोपयाति । वचोभङ्गी, चमत्कृतिः, वक्रोक्तिः, अनुप्रासप्रभा च ऐन्द्रधनुषीमाभां काव्ये संनिदधाति । एतादृशं काव्यं कस्य न सचेतसश्चेतो मोहयति । अतः साधूच्यते
___ काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते।