SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ८०. आचार्यदेवो भव (क. आचार्यो ब्रह्मणो मूर्तिः; ख. गुरुपूजा ) को नामाचार्यः ?-यो ह्याचारं ग्राहयति, छात्रोपयोगिविषयान् संगृह्णाति, छात्रबुद्धि विकासयति च, स आचार्यः । उक्तं च निरुक्ते आचार्यः कस्मात् ? आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा ॥ निरुक्त १-४ यः सदाचार-शिक्षणपूर्वकं छात्रेषु जितेन्द्रियत्वं पोषयति, स आचार्यः । अथर्ववेदे प्रोच्यते आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ अथर्व० ११-५-१७ भाचार्यस्य स्वरूपम्-अथर्ववेदे आचार्यो मृत्युवरुणः सोम इत्युच्यते । आचार्योऽनुशासनप्रियत्वाद् यमः, न्यायाचरणाद् वरुणः, छात्रालादकत्वात् शीलसंपन्नत्वाच्च सोमः । आचार्यो मृत्युवरुणः सोम ओषधयः पयः ॥ अथवं० ११-५-१४ गुरुविविधविद्या-पारदृश्वा, ज्ञान-विज्ञान-नदीष्णः, अध्यापनविधिनिष्णातश्चाभूत् । अतएव स वाचस्पतिरित्याख्यां जगाम । तस्य मनसो दिव्यत्वं संयमप्रियत्वं च प्रशस्यते । पुनरेहि वाचस्पते देवेन मनसा सह । अथर्व ० १-१-२ ।। वाचस्पतिनि गच्छतु मय्येवास्तु मथि श्रुतम् । अथर्व० १-१-३ आचार्यस्य जीबनं श्रुति-संमतम् अभूत् । तस्य जितेन्द्रियत्वम् अनुरुध्यैवान्तेवासिनस्तस्मिन् श्रद्दधुः । सं श्रुतेन गमेमहि मा श्रुतेन विराधिषि ॥ अथर्व० १-१-४ आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ॥ अ० ११-५-१६ . आचार्यप्रवर एव कुलपतिरित्याख्यां जगाम । स दशसहस्रं यावत् छात्रवृन्दं मुनीश्चाध्यापयत् । मुनीनां दशसाहस्रं योऽन्नपानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ गुरु-शिष्य-संबन्धः-आचार्य-शिष्ययोः पितापुत्रवत् संबन्ध आस्थीयते । उपनयन-संस्कारेण शिष्यस्य गुरोः समीपनिवासाद् अन्तेवासित्वं संजायते । परीक्षणकाले गुरुसविधे रात्रित्रयावस्थानेनाचार्यस्य मातृत्वं निर्दिश्यते । एवं गुरु-प्रदत्त-ज्ञानावाप्ततेजस्वित्वं च छात्र संलक्ष्यते । एतदेवाभिप्रेत्य प्रोच्यते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy