________________
२६६
संस्कृतनिबन्यशतकम्
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । तं रात्रीस्तित्र उबरे बिर्भात तं जातं द्रष्टुमभिसंयन्ति देवाः ॥
अ० ११-५-३
आचार्यनिरीक्षणेऽधीयानोऽन्तेवासी सामान्यवेषं मेखलादिकं च धारयन् घोरेण परिश्रमेण तपोमय जीवनेन च लोकत्रयं पुष्णाति ।
ब्रह्मचारी समिना मेखलया श्रमेण लोकांस्तपसा पिति ॥ अ० ११-५-४ ब्रह्मचारिणः सर्वगुण-समृद्धया इन्द्रत्वम्, सर्वदुरितविनाशनाद् असुरविनाशनं च निर्दिश्यते ।
इन्द्रोह भूत्वाऽसुरांस्तर्ह ॥ अथर्व ० ११-५-७
तैत्तिरीयोपनिषदि गुरु-शिष्ययोस्तथा एकोद्देश्यत्वं चित्तैकत्वं च निर्दिश्यते यथा द्वयोरेव सामञ्जस्येन श्रीवृद्धि:, विद्यायाश्च तेजस्वित्वं संपद्यते । सह नाववतु, सह नौ भुनक्तु, सह वीर्यं करवावहै ।
तेजस्वि नावीतमस्तु मा विद्विषावहै ॥ तैत्ति० २-१-१ सह नौ यशः । सह नो ब्रह्मवर्चसम् ( तैत्ति० १-३- १ ) इत्यनेन निर्दिश्यते यद् गुरोराशीर्वादेन छात्रस्य यशः, तेजस्विभिश्छाश्च गुरोर्यशः प्रथते । गुरोर्विश्वामित्रस्य कृपया रामस्य यशः, छात्रस्य दयानन्दस्य च तेजस्विता गुरोर्विरजानन्दयतेयंशोऽप्रथत । गुरु-शिष्ययोर्द्वयोरेव सामञ्जस्येन सद्भावेन च द्वयोरपि तेजोवृद्धिः संजायते । अतएवोच्यतेआचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनं संघानम् ॥ तैत्ति० १-३-३ आचार्यश्छात्रवृन्द-हित-करणार्थं छात्र-ज्ञान-वृद्धयर्थं च प्रतिपलम् अचिन्तयत् । अतएवोच्यते
आमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । यथापः प्रवता यन्ति । एवं मां ब्रह्मचारिणः, वातरायन्तु सर्वतः स्वाहा ॥ तैत्ति० १-४-२, ३ आचार्यानुशासने स्फुटमेतद् आचार्येण आदिश्यते यद् गुरोरपि सत्कर्मैव अनुकरणीयम्, नान्यत् ।
यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो इतराणि ॥
तैत्ति० १-११-२
गुरोर्वे क्त्वम् - गुरोर्देवत्वं कस्य न विदितम् । गुरुरेव अज्ञानान्धतमसं व्यवच्छिद्य ज्ञान ज्योतिज्वलयति । तत्कृपयेव दिव्यदृष्टित्वं प्राप्यते । उच्यते च
अज्ञानतिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीपुरवे नमः ॥
<