________________
संस्कृत निबन्धशतकम्
शिक्षणालयेषु विनियोज्याः । ( ७ ) छात्रेष्वाचार शिक्षाया अनिवार्यत्वं स्यात् । दूषितानाम् अवाच्छनीयानां च छात्राणां प्रवेशो निरुध्येत । सम्यक् परीक्ष्यैव छात्राः शिक्षालयेषु प्रवेश्या: । ( ८ ) छात्रसंघ सदस्यत्वम् ऐच्छिकं स्यात् । ( ९ ) मनोवैज्ञानिक - परीक्षणेन प्रवृत्तिमूलकमेव विविध विषयाध्यापनं स्यात् । (१०) विशिष्टाध्ययन - रुचयः, शोध प्रवृत्तयश्च छात्रा विश्वविद्यालयेषु प्रवेश्याः, इतरे च प्रत्याख्येयाः । ( ११ ) शिक्षा पद्धत्याः देश-युग-परिस्थित्यनुसारं पुनर्मूल्याङ्कनं पुनर्निर्माणं च स्यात् । ( १२ ) परीक्षा प्रणाली - दोष- वारणार्थं मासिक परीक्षादिमूला कक्षोन्नतिः स्यात् । ( १३) साधनाभाववन्तो विद्यालयाः समाप्याः । सर्वकारेण वा तत्र साधनानि संयोजनीयानि ( १४) देशे सुतरां व्याप्तो भ्रष्टाचारोऽपि छात्रानुशासनं दूषयति । तस्योन्मूलनमपि सर्वेषामेव कर्तव्यम् |
२६४