SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६३ समस्या 1-अपि वा वृद्धि प्राप्ति-सौकर्यं । M.B.B.S., B.A., M.A., Ph.D., B.E., M.E., M.Sc., M.Sc. (Ag.), LL.B., M.Com. प्रभृतिपरीक्षीर्णा अपि न मूति जीविकोपार्जनं च लभन्ते इत्येतत् महलोऽसन्तोषस्य मूलम्, मेराश्यस्य च कारणम् । ( २ ) विश्वविद्यालयादिषु आचारसदाचार- शिष्टाचारादि-विषयेषु अनवधानम् । चारित्रिकी शिक्षाम् अन्तरेण अनुशासनसमस्या-समाधानम् आकाश- कुसुमम् इव दुर्लभम् । ( ३ ) गुरुशिष्ययोः अध्यापकाध्येतृषु प्रेममूलकः श्रद्धासमन्वितश्च गुरुशिष्य संबन्धः । अध्यापका अध्येतारश्च उभयेऽपि स्वकमंच्युताः संलक्ष्यन्ते, तदा कथं गुरुभक्तिराचार्य - भक्तिर्वा प्रचरेत् । ( ४ ) शिक्षालयेषु प्रबन्ध - दुरवस्था | महाविद्यालयादीनां प्रबन्धका जातिवाद संप्रदायवाद-संबन्धिवादादि दोष प्रस्ताः । अतोऽयोग्यानां निर्वाचनम्, योग्यानां च परिहारो लक्ष्यते । ( ५ ) शिक्षाकेन्द्रेषु भ्रष्टाचारग्रस्तानां नेतॄणां राजनीतिविदां चाव्याहतः प्रसरः । भ्रष्टाश्चारित्र्यहीना नेतारो युक्तायुक्त उचितानुचित गहिताऽगहित साधनेः स्ववर्ग-जाति-दलादिसंबद्ध - शिक्षक नियुक्ती प्रभवन्ति । ( ६ ) शिक्षकेषु आचार्येषु चापि यत्र तत्र चारित्र्यदोषः, आचारदोषः, धूम्र-पानादि - विविध-दोष - दूषितत्वं च संलक्ष्यन्ते । अत एवानुशासन - समस्यापि उदेति । ( ७ ) छात्रेष्वपि केचन वंश-परम्परागत - दोष-कारणात्, कुसंगति-जन्य-दोषात्, परिस्थिति-जन्य - दोषाच्च आचारादिविषयक-दोषग्रस्ताः संलक्ष्यन्ते । एतस्मादपि अनुशासन - समस्योद्भवति । ( ८ ) महाविद्यालयेषु, विश्वविद्यालयेषु च छात्रसंघस्थापनम्, छात्राणां नेतृत्वकामना, राजनीतिक दल - संबन्ध - द्वारा महत्त्वाकांक्षा - पूर्ति - कामना, विविधान् दोषान् जनयति । ( ९ ) लक्ष्यनिर्णयाभाव: । शिक्षायाः किं लक्ष्यम् ? इत्येतस्या निर्णीतत्वात्, लक्ष्यज्ञानाभावात्, सत्पथभ्रष्टत्वात् किंकर्तव्यता- विमूढत्वाच्च छात्राणाम् अध्ययनेऽरुचिः, उद्दण्डतायाम् उच्छृङ्खलतायां चाभिरुचिः । ( १० ) अनुसन्धान-शोध-विशेषज्ञतादिकं प्रति रुच्यभावः । ( ११ ) शिक्षा-पद्धत्या दोषपूर्णत्वम् । ( १२ ) परीक्षा-प्रणाल्या अत्यन्तदोषाकुलत्वम् । ( १३ ) शिक्षा - लयेषु समुचित साधनाभावः । ( १४ ) देशे भ्रष्टाचार-व्याप्तिः । अनुष् - समस्यानां निराकरणम् – (१) वृत्तिसमस्या समाधानार्थं योग्यतानुसारं शिक्षितानां विविधवृत्तिषु विनियोजनम् । औद्योगिकादि-संस्थानां संस्थापनं सर्वकारस्य प्रमुखं कर्तव्यम् । ( २ ) विश्वविद्यालयादिषु सदाचार - शिक्षाया आचारशिक्षायाश्चानिवार्यत्वं स्यात् । ( ३ ) अध्यापकाध्येतृषु प्राचीनो गुरुशिष्य संबन्धः संस्थाप्येत । ( ४ ) शिक्षणालय व्यवस्थासु योग्य - प्रबन्धकानां नियुक्ति: स्यात्, सर्वकारेण वा संस्थानां स्वायत्तीकरणं स्यात् । ( ५ ) शिक्षणालयेषु भ्रष्ट नेतॄणां प्रवेशो निषिध्येत । ( ६ ) आचारवन्त एव शिक्षकाः
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy