________________
७९. अनुशासन - समस्या
( शिक्षाधिषु निरङ्कुशत्वम्, तनिरोषोपायाश्च )
कि नामानुशासनम् ? - अनुपूर्वात् शास्धातोर्व्युटि अनुशासनं सिध्यति । शासन विधिर्नियमो वा तदनुकूलं चाचरणम् अनुशासनम् इति । जीवनेऽनुशासनस्य तादृश्येवावश्यकता यथा शरीररक्षाये भोजनस्य बौद्धिक विकासाय ज्ञानस्य च । न स्याच्चेदनुशासनं तर्हि समग्रमपि मानवजीवनं निष्फलं निष्क्रियम् आरण्यकजीवन संकाशं च संपद्येत ।
अनुशासनस्य महत्त्वम् — जीवनोन्नत्यै जीवनसाफल्याय चानुशासनम् अनिवार्यम् । शैशवाद् आरभ्य वृद्धत्वं यावद् अनुशासनम् आवश्यकम् । बाल्ये मातापित्रोः, विद्यालये गुरोः, गृहस्थजीवने पत्युः पत्न्या वा, वृत्तिस्थानेषु उच्चाधिकारिणाम् अनुशासनं पाल्यते । अन्तरेणानुशासनं पारिवारिकं सामाजिकं राष्ट्रियं च संगठनं विच्छिद्येत । रत्नं घर्षण - च्छेदनादिनाऽनुशिष्टं सद् महाघंत्वं भजते । अश्वाः सुनियन्त्रिताः समरभूमौ विजयं लम्भयन्ति । सैनिका अनुशासनं पालयन्तः स्वसेनापतेः संकेतमात्रेण एकधा आचरन्ति व्यवहरन्ति च । सेनासु यादृशं कठोरम् अनुशासनम्, तादृश्येव विजय - वैजयन्ती समासाद्यते । किमन्यत्, महात्मनो गान्धेर्नेतृत्वम् अनुशासनं चानुसृत्यैव भारतं स्वातन्त्र्यं लेभे । अनुशासनस्यैव एतन्महत्त्वं यत् सामाजिक राष्ट्रियं च कार्यंजातं सारल्येन प्रचरति ।
अनुशासन - दृष्ट्येव निर्दिश्यते - 'लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत्' । 'लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः' । तैत्तिरीयोपनिषदि अतएव प्रोच्यते — वेदमनूच्याचार्योऽन्तेवासिनम् अनुशास्ति । सत्यं वद । ( ० १ - ११ - १ ) । धर्मंसूत्रेषु स्मृत्यादिषु चाचारवर्णनम्, कर्तव्याकर्तव्यविधाननिरूपणम्, सर्वमप्यनुशासनमूलकम् ।
अनुशासनं सर्वविध- समुन्नतेर्मूलम् । अनुशासनमेव साधनां शिक्षयति । बुद्धेस्तथाविधानुशासनेन कवित्वम् ऋषित्वं ज्ञानित्वं वैज्ञानिकत्वं च सिध्यति । अनुशासनमूलकमेव संगीत-नृत्य- विविधकला-विशेषज्ञत्वम् ।
छात्रेष्वनुशासन-समस्या – साम्प्रतं सर्वतः छात्रेष्वनुशासन-समस्याऽवलोक्यते श्रूयते च । न केवलं भारतेऽपितु विदेशेष्वपि छात्रानुशासनसमस्या विदुषां शिक्षाशास्त्रिणां च विचार चर्चा- विषयः । भारते छात्रानुशासनसमस्या विविच्यते विश्लिष्यते चेत् तर्हि कतिपयानि कारणानि पुरतः समायन्ति, तानि निराक्रियन्ते चेत् समस्या समाधानं भवितुम् अर्हति ।
अनुशासन - समस्या- कारणानि - ( १ ) शिक्षाप्राप्त्यनन्तरं वृत्ति-प्राप्ति