SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ दण्डिनः पदलालित्यम् १११ दण्डिनो ग्रन्थद्वयम्-दशकुमारचरितं काव्यादर्शश्च प्राप्यते । दशकुमारचरितं काव्यादर्शश्च तद्विरचिते इति नात्र संशीतिः। केचन 'अवन्तिसुन्दरीकथा' इति ग्रन्थं तृतीयं मन्यन्ते, परं डा० कीथमहोदयस्य मतमत्र समीचीनं प्रतिभाति यत् शैल्या भिन्नत्वाद् अप्रामाणिकत्वाच्च नेयं दण्डिनः कृतिः, अपितु कस्यचिदन्यस्य लेखकस्य कृतिः । काव्यादर्श छन्दोविचितिः, कलापरिच्छेदश्चेति ग्रन्थद्वयं तस्य कृतित्वेन निर्दिश्यते, परं ग्रन्थद्वयमेतत् छन्दःकलाविषयकं लघुकायं परिशिष्टरूपात्मकं प्रतीयते । तस्य 'द्विसन्धानकाव्यम्' अद्यावधि अप्राप्यम् । तदुपलब्धौ तस्य प्रामाण्यं वक्तुं सुकरम् । एवं तस्य ग्रन्थद्वयमेव प्राप्यम् । तृतीयं चानुसन्धेयम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy