________________
३२. माघे सन्ति त्रयो गुणाः माघस्य कवित्वम्-महाकविर्माघः सुरगवी-काव्याकाशे विद्योतमानं स्वप्रभानिरस्तान्य-तेजः प्रसरम् अनुपमं नक्षत्रम् । तस्यापूर्वा कान्तिः समग्रमपि वाङ्मयं रोचयतितमाम् । तस्य विविधशास्त्रावगाहिनी सूक्ष्मेक्षिका प्रतिभा सुसूक्ष्ममपि तथ्यम् आत्मसात्कृत्वा पुरः स्फुरदिव प्रस्तौति । कविरयं न केवलं काव्यशास्त्रस्यैव पारदृश्वा, अपि तु व्याकरणशास्त्रस्य, राजनीतेः, अर्थशास्त्रस्य, धर्मशास्त्रस्य, कामशास्त्रस्य, दर्शनानाम्, ज्योतिषस्य, संगीतस्य, पाकशास्त्रस्य, हस्तिविद्यायाः, अश्वशास्त्रस्य, पुराणादीनां च सारविदनुपमो मनीषी । अस्य चमत्कृतिकरं पाण्डित्यं प्रेक्षं प्रेक्षं प्रेक्षावन्तोऽस्य कवित्वं प्रशंसन्ति ।
माघस्य गौरवम्-केचन माघस्य कवित्वं तथाऽऽह्लादकरं मन्यते यत्ते तदर्थं स्वजीवनसमर्पणमपि सुन्दरं मन्यन्ते । अतएव साधूच्यते-'मेघे माघे गतं वयः' अर्थात् मेघदूतस्य शिशुपालवधस्य चानुशीलने आयुर्व्यतीतम् । काव्येऽस्मिन् तस्य विशालं शब्दकोशमुवीक्ष्य केनापि निगद्यते-'नवसर्गगते माघे नवशब्दो न विद्यते' अर्थात् शिशुपालवधस्य नवसर्गाणां समाप्तौ न नवीनः शब्दोऽवशिष्यते। तेन नवसर्गेषु तथा नवनवाः शब्दाः प्रयुक्ताः, तथा तत्र शब्दकोष-राशिरुपलभ्यते । तस्य काव्ये प्रतिपदं पद-लालित्यं माधुर्यम् च प्रेक्ष्य विपश्चिद्भिरुदाह्रियते—'काव्येषु माघः' इति । अनर्घराघवनाटककतो मुरारेः पाण्डित्यपरिपूर्ण नाटकं प्रेक्ष्य केनाप्यभिधीयते यद् मुरारिजिज्ञासितश्चेद् माघे मन आधेयम्, 'मुरारिपदचिन्ता चेत् तदा माघे रतिं कुरु'। भारवि सर्वतोभावेन भावावल्याऽतिशयानं माघं प्रेक्ष्य केनापि निगद्यते-तावद् भा भारवे ति यावन्माघस्य नोदयः'।।
माघस्य कृतित्वम्--कवरेतस्य गौरवाधायक ग्रन्थरत्नम् एकमेव 'शिशुपालवध'-नामकम् उपलभ्यते । अस्मिन् महाकाव्ये विंशतिः सर्गाः, १६४५ श्लोकाश्च विद्यन्ते । १५ सर्गे क्षेपकाः श्लोकाः ३४, ग्रन्थान्ते च कविवंशवर्णनश्लोकाः ५, तेषामपि समाहारे श्लोकसंख्या १६८४ भवति ।
__ माघस्य वैशिष्टयम्-विपश्चिद्भिः महाकवेः कालिदासस्य कतिषु उपमानां प्राधान्यम्, भारवेः कृतौ किरातार्जुनीये अर्थगौरवस्य वैशिष्टयम्, दण्डिनः कृतौ दशकुमारचरिते पदलालित्यम्, माघस्य च कृतौ शिशुपालवधे त्रयाणामपि पूर्वोक्तानां गुणानां समन्वयं समीक्ष्य साह्लादम् उद्घोष्यते यद्-.
___ उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥ एतदत्रावधेयं यद् माघो यद्यपि त्रयाणामपि गुणानां स्वकाव्ये समाहारं विधत्ते, तत्र तत्र च वैशिष्ट्यं सौन्दर्य माधुर्यं चापि धत्ते, तथापि नोपमाप्रयोगे