________________
माघे सन्ति त्रयो गुणाः
११३
स कालिदासम् अतिशेते, अर्थंगौरवे च भारविम् । पदलालित्ये नूनं स दण्डिनम् अतिशेते । तस्य पदमाधुर्यं सर्वातिशायि । माघः त्रयाणामपि गुणानां संकलने नितरां साफल्यम् अवापेत्येवं तस्य महत्त्वम् । तस्य च तादृशं प्रावीण्यं यथा नानाविधवर्णने तस्याप्रतिहता प्रतिभा ।
माघस्य शैली - महाकवेर्माघस्य भावपक्षापेक्षया कलापक्षः प्रशस्यतरः । यद्यपि भावपक्षस्यापि मनोज्ञत्वं माधुयं हृद्यत्वं च पदे पदेऽवलोक्यते तथापि नात्र कस्यापि सुधियो विप्रतिपत्तिः यन्माघः कलापक्षाश्रयणे कवीन् अन्यान् अतिशेते । क्वचिद् अलंकार प्रयोगाः, विशेषतश्चित्रालंकारप्रयोगाः क्वचिद् व्याकरण- नैपुण्य-प्रदर्शनम् क्वचिद् छन्दोरचना- दक्षतोपयोगः क्वचिद् यमकाद्यलंकाराणां प्रयोगबाहुल्यम्, क्वचित् कोमल-कान्त - पदावल्याः संधानम्, क्वचित् शास्त्रीय-पाटव- प्रदर्शनम्, तस्य कलात्मिक्या रुचेः परिचायकानि सन्ति । महाकविभर विस्तस्य आदर्शरूपोऽभूत् । तस्य सरणिमनुसृत्य सोऽपि कलात्मकपाण्डित्य-प्रदर्शने कृतमतिरभूत् । भारवेः स्वोत्कर्षं साधयितुं स तदीयां सरणिम् अनुसृत्य तत्रोत्कर्षम् अवाप । कलापक्षाश्रयणे स न केवलं भारविमेव, अपि तु महाकवि भट्टिमपि अतिक्रामति ।
,
माघस्योपमा - वैशिष्टयम् - माघे सुरुचिपूर्णाः शतश उपमाः समुपलभ्यन्ते । तत्र क्वचित् शास्त्रीयं ज्ञानम्, क्वचित् काव्यगौरवम् क्वचिद् नीतिशास्त्रतत्त्वम् क्वचिच्च विविधविद्याविशारदत्वं तस्य गरिमाणं प्रथयति । संगीतशास्त्रस्य काव्यशास्त्रस्य च महत्त्वं वैचित्र्यं चोपमया प्रकटयति यद् वाङ्मये कतिपये एव वर्णाः सन्ति, संगीतशास्त्रे च सप्त स्वराः, परं तेषामुपादानेन कथमिव वैचित्र्यजनकं शास्त्रम् उदेति
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ शिशु० २- ७२ भाग्यपुरुषकारयोर्द्वयोरपि परस्परापेक्षित्वम् अनिवार्यत्वेनाङ्गीकरणं च तथैवावश्यकं यथा सत्कवये शब्दार्थयोर्द्वयोरपि संग्रहः । उपमया साध्विद विशदयति सः
--
"
नालम्बते दैष्टिकतां न निषीदति पौरुषे ।
शब्दार्थी सत्कविरिव द्वयं विद्वानपेक्षते ॥ शि० २-८६
उपमाप्रयोगे काव्यशास्त्रीयं ज्ञानं संपुष्णता तेनोच्यते यद् यथा संचारिभावाः स्थायिभावं पोषयन्ति, तथैव विजिगीषु नृपमन्ये सहायका:स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ शि० २-८७ नीतिशास्त्रविदग्धतां विशदयता तेनोच्यते यद् यथा स्वक्षेमकामेन वृद्धि प्राप्नुवन् रोगो नोपेक्ष्यः, तथैव एधमानोऽरातिरपि नोपेक्षामर्हति-
ረ